________________
पञ्चमलहरी
181 बलाया रक्षणेऽपि न दक्षोऽसि ? सौंदर्यमात्रेण वञ्चिता अभवम् । ते तु न विमृष्टागुणाः । न चिंतितस्वभावः। न परीक्षितं हृदयम् । न श्रुता धीः। नापि कृतः परिचयः । मम तावद्धिगसमीक्ष्यकारित्वम् । धिक्ते हृदयपारुष्यम् । प्रलोभनशीलोऽसि । धर्मकंचुकावच्छन्नस्य तवेयमुचितैवानुचरवञ्चनैकतानता । ननु निरनुक्रोशपरिजनपरिवृतां प्रासादे सारं परिवर्धितां अनरालप्रकृति नीत्वा च मामेकाकिनी घोरतरं कांतारं प्रतारगैकपरतया विहाय च गतोऽसि । किमिदमुचितं ते निघृण ! इति विलपन्ती कृच्छ्राद्दीर्घतरं कालमत्यवाहयत् ।
एवं प्रलपन्तीं तां बहुधा सविनयमपृच्छम् । अंब ! निरंतरमपि कुतो रोदिषि ? कः पुनस्स जीवसेनः ? यमनवरतमपि भगवन्तमिव ध्यायसि ? यमनुलपसि । यद्विषयं व्याहरसि । यमनुचिंत्य रोदिषि । यद्गुणान्कथयसि। किमर्थं तेन विसृष्टा कानने ? केयं तापसी ? या च भवत्समसुखदुःखमागिनी । कुतो वा तवेदशी दशा ? कुतश्च गुहायामस्यां निवससि ? क ते माता ? किमु न ते पिता ? किमु दुःखनिदानम् ? तदखिलमपि निवेदय दययेति । पृष्टा च सा वात्सल्यातिरेकात्सदंतपोडं परिरभ्य माममंदानंदद्विगुणितबाष्पसलिला विस्मृतपतिविरहक्लेशा बाष्पक्लिन्ने निजकपोलफलके निधाय मदीयं कपोलतलं करकमलतलेन परामृशन्ती मदुत्तमांगं समुपवेश्य च निजांकतले वत्स ! किमर्थं पृच्छसि दुःखप्रायं मदुदन्तम् ? मंदभागधेया खलु । किमनेत श्रुतेन ? भवानपि भवति दुःखभाजनम् । तथापि कथयामि । यतश्च प्रेमातिशयेन कुतुकी पृच्छसि। शृणु तावदिति वकुमारभत । वत्स! प्रायो जगति रूपैकसक्तचित्ता हि योषितः । तादृशपुरुषविशेषलिप्सया त्यजन्ति निजबन्धुतामिव लजामपि। क्रमच्यवनशीलं सौंदर्य न परिशीलयन्ति। वत्स ! जिहेमि मदुदन्तं वछम् । दुरन्तं शृणु तावत् । अहं तारुण्यलालितशरीरा निजावरोधभित्तितलविलिखितराजकुमारमंडलमध्यवर्तिनं सुन्दरतरं कुमार