________________
जयन्तिका
मपश्यम् । विलोक्य च तत्स्मरणपरायणा सख्या चिंतयन्ती दिष्टया मदवरोधमागतेन गन्धर्वपतिप्रसादलब्धांतर्धानविद्याकौशलेन जीवसेनाभिधेन तेन समं गुरुजनमप्यतिसन्धाय प्रस्थिता सुरंगसरण्या महारण्यमगमम् । तदा प्रौढप्रावृट्तया निरंतरजलधरनिकरकरं बिते सुरसरणिचत्वरे गंतुमक्षमतयेवास्तमुपगतवति भगवति गभस्तिमालिनि जीव सेनस्सौदामनी कशाताडितः इव शतघ्नीध्वानसन्निभघोरतरघनतरघनगर्जिततर्जित इव वर्षतारतरधारापञ्जरनिगडित इव च पदमेकमपि गंतुमनीशः साध्वसविह्वलां मामादाय सौदामनीद्युतिसाह्यगोचरीभूतां गुहां प्रविश्य तत्रैव मया सह निद्रासुखमनुबभूव ।
182
तदनु मरीचिमालिन्युदयशिखरमधिगतवतीति निगदन्तं बालकमसकृत्परामृशन्पाणिना स मातङ्गस्सगद्गदं वत्स ! इतः परं साधु निवेदय कथमनुभूतस्तया क्लेशः ? कथमेकाकिनी हरिणेक्षणा कांतारे तारतारं विलपन्ती वल्लभाभासं तं जीवसेनहतकं मृगयति स्म निर्जने गहने ? कथं वा तापसीसमायोगः ? तात ! तत्सकलमपि निवेदयेति बाष्पधारासारधौताधरपुटस्सदैन्यमपृच्छत् । पृष्टश्च स बालकस्सबाष्पं सगद्गदं च तात ! कथयामि, पापोऽहं कथयामि । सावधानं शृणु तावत् । प्रभाते अहमुत्थायानवलोक्य च वल्लभं भयकंपितहृदया बहिरागत्य विपिनमभितो दत्तदृष्टिरुचैर्विलपन्ती दुर्गमे गहने तदन्वेषणपरा निराहारा खरकिरणकिरणसंतापिता यूधभ्रष्टा कुरंगीव आमध्याह्नमभ्रमम् । स मातङ्गस्तदवकर्योन्मत्त इव हा ! प्रिये ! मदेकजीविते ! निर्निमित्तं विधिवशान्निर्घृणेन मया पापीयसा परित्यक्तापि मामवलंबसे ! इन्त ! ते पातिव्रत्यम् । क्वासि ? हा ! जयंतिक ! देहि मे प्रतिवचनम् । क्कासीत्युच्चैराक्रन्दन्वत्स ! ततस्ततः इत्यपृच्छत् । पुनरपि स बालकः वक्कुमारभत ।
एवमेव पर्यटन्ती रमणीयतरमदृष्टपूर्वं तरुषंडानातपं मंदमारुतपरिहियमाणश्रमं तपोवनमेकमपश्यम् । वत्स ! इदमेव तत्तपोवनम् ।