________________
जयन्तिका
समया इति । अथवा कथमपि जीवंती न किमपि प्रयोजनं पश्यामि । किंत्वनर्थमेव । तदधुनैव त्यक्ष्यामि प्राणानिति विचित्य च तस्मादुत्थायेंधनानि तत्रतत्र निपतितानि समाहृत्याहृत्य विरचय्य विशालामुच्छ्रितां च चितां दृषदा दृषदमभिहत्य तज्जनितं तस्यां न्यक्षिपमनलम् ।
18
निक्षिप्ते च तस्यामनिकणे निजसख्यास्सुरापगायाः कुशलानुयोगचिकीर्षया समुद्गच्छन्निव यमुनासलिलप्रवाहोऽत्यधिकतया निर्भिद्य धरणिमपि वेगादूर्ध्वं निस्सरन्निव रसातलादंधकारो नंदनवनश्रीदिदृक्षयेव आस्वर्गमुपचीयमानस्तमालतरुनिकरो मनुजानां दिगंतरालेषु दिगंगनाकेशपाशसंदेहं नीलकंठानां वियदंकणे कादंबिनी भ्रांति घूकानां आमोदं चक्रवाकानां शोकं च समुपजनयन् व्याघ्रचित्रकायप्रभृतीनां वनसत्वानामंतकायमानः कांतारमखिलमपि नीलसांद्रपटावगुंठितमिव वितन्वन् समंतात्समुदचरद्भूमनिकरः ।
तदनु फूत्कारायमाणेन समीरणेन क्रमेण प्रतिबोधितः प्रथमं चितांतरांतरा प्रसृमैरेवलापल्लवैः किसलयशंकामुपजनयन्क्रमक्रमसमाक्रांतसकलेंधनो दिशिदिशि विप्रकीर्णस्थूलस्फुलिंगनिकरो ज्वलदुदग्रशिखरज्वालाकरपल्लवैर्माणिक्यघुटिकानिकुरूंबमर्पयन्निव दिग्वधूभ्यः विजृंभमाणज्वालामालो लिहन्निव गगनतलं चटचटात्काग्वाचालित हरिदंतरालस्समंततः प्रसृमरस्थूलबाहाभिरालिंगन्निव दिगंगनाः विसृत्वररोचिर्दूरीकृतकुंजपुंजांतलींनतमः पटलः पाकशासनचाप इव विविधवर्णस्पृहणीयोऽरुण इव रक्तप्रभाप्रकाशिताकाशतलः विरिंचिरिव कमलयोनिः राधेय इव स्पर्शनलब्धविकासो योध इव प्रकटिततीक्ष्णतरविचित्रहेतिः वारांगनाविलासः इवापहृतपल्लवसौभाग्यश्शाकुनिक इव निहतानेककुलायगतशकुनिनिकरः भीष्मनिशितशरशतहतिकुपितपार्थसारथिरिव प्रदर्शितचक्रज्वालः काभिश्चिदचिर निहतदैत्येंद्ररुधिरसिक्तनरकेसरि केसरकलापानुकारिणी भिरतिरक्ताभिः काभिश्चिन्मरकतशलाकासंकाशा मिर्हरित सुषुमाभिः काभिश्चिदिंद्रनीलद्युतिगर्वसर्वकषाभिः काभिश्चित्सुरापगापरीवाहनिभाभिर्विशदप्रभाभिः
·