________________
चतुर्थलहरी
127 दंतकंकतिकाभिस्सखीभिरभ्यर्थितापि कबरीप्रसाधनाय किमपि विचिंतयंती न हि मयि प्रसन्नो जीवसेन इति सकृदेवोत्तरयंती कदाचिदाहूता च भुजिष्याभिरभिषेकाय अरिभीकराधिपस्मरणमात्रेण धर्मसलिलैरभिषिक्तास्मि। किं पुनरभिषेकवार्तयेति कथयंती कदाचित्क्रियते लाक्षारसैश्चरणकिसलयमस्माभिस्सरागमिति निवेदितापि कृतमेव मनस्सरागमिति निगदंती कदाचिद्धवलीक्रियतां मुक्ताहारेण शरीरमिदमिति मुहुरभ्यर्थितापि प्रथममेव धवलीकृतं हि मुक्ताहारेण शरीरमिदमदयम् । इति व्याहरंती कदाचित्कुसुमैरापीडयामो वयमिति सखीभिरभिहिता कुसुमशरापीडितायां मयि कन्ववकाशः ? इति निगदंती जयंतिका सखोजनानां हृदयेषु महतीं चिंतामुदपादयत् । तस्याश्च नासामणिरपि निरर्गलनिस्सरन्निश्वासपवनचालिता कंपकैतवेन वासनाद्रव्यमस्यास्सकाशं मा समाहरतेति परिजनान्निवारयतीव रराज । मत्वा च मामंगदमनंगोऽयमंगाभ्यर्थनाय वदान्यावासमर्थीव मदाश्रयभूतामिमामुपगत इति शङ्कयेवांगदयुगलं कृशाभ्यामस्या बाहुलताभ्यां सस्रंसे।
क्रमेण सा तु सुभद्रेवार्जुनालिंगितशरीरा बभूव । एवं शंबरारिशरपीडिता सा तु जयंतिका जीवसेनध्यानैकताना कदाचित्तृतीये यामे सखीजनपरिवृता प्रासादोपवनमासाद्य तत्र यंत्रनिकृत्ततया समतामापादितानामंतरांतरा सितहरितपीतासितकुसुमविसरमनोहराभिर्वल्लीभिश्चित्रितानां समास्तीर्णविविधवर्णकुथानामिव समंततस्समुत्कीर्णसलिलबिंदुबूंदबंधुरकाहलीनीकाशजलयंत्रकलितकरतलाभिस्स्फटिकशिलासमुत्कीर्णाभिस्समुन्नताभि - स्सालभंजिकाभिरभिराममध्यदेशानां शादलानामुपकण्ठे कल्पितायां स्फटिकशिलावेदिकायां स्तोकमिव विश्रांतिसुखमनुभूय तत्र पंजरपोषितशुकशारिकाप्रभृतिशकुनिमनोहरालापश्रवणद्विगुणितमीनकेतनपीडा सहसोन्मत्तेव वेदिकायास्समुत्थाय चरणन्यासमात्रेण लगति मालिन्यमिति भीतिमुपजनयतेव निर्मलेन पाटलमृदुलमृत्तिकामयतया समास्तीर्णकाषायांबरशंका