________________
128
जयन्तिका मुत्पादयता सर्वदिक्षु सुदूरं प्रसृतेन दूरीकृतनिनोन्नतत्वेनानत्यायतेन वर्त्मना संचरमाणा हरिततरकदलीनिलयेषु विविधशकुनिनिकरनीरंधितवेतसावसथेषु परिमलबहुलकुसुमविसरप्रवालमंजुललतागृहेषु च विलोचने विलोभयंती महणतरमेचकशिलाकल्पितैः कतिपयसोपानैर्मनोहरं सुधाधवलितपृथुलस्निग्धनिस्तलस्तंभप्ररोपितेषु विचित्रप्रसूननिचितहरितव्रततिबातेषु निरंतराक्रांतपतत्रिप्रकरकलकलरावसंकुलं वलभितलपरिचलत्कलरवहुंकारमुखरितं गारुत्मतफलकगोपानसीशिखरघटितचामीकरपंजरगतरुचिरकीरमधुरापरिस्फुटव्याहारमनोहरं केकारवस्निग्धकंठनीलकंठमिथुनसनाथप्रतीहारं कलधौतशृङलिकानियंत्रिततपनीयडोलाफलकविलसन्मध्यदेशं प्रत्युप्तमुक्ताफलप्रकरविराजमानमित्तितलं तनुतरचिक्कणानीलशिलाफलककृतकवाटैर्वातायनरुपशोभमानं महिषीजनसमुचितं उपवनश्रीशिरोरत्न भवनमभजत् ।
तत्र तावदसकृत्सानुनयं सखीजनैरभ्यर्थिता बलाद्विभूषिता च जीवसेनमेव मनसि विचिंतयंती तस्मिन्नेव डोलाफलके समुपाविशत् । तदनु रक्तं रविमंडलमनुरक्तं जयंतिकाहृदयमिव चिंतापयोनिधौ न्यमजचरमांबुधौ । अथ पारावतेषु नीरवमाश्रितविटंकेषु कलविकेषु प्रविष्टभित्तिविवरेषु पंजरकीरेषु निद्रालोलुपेषु मयूरेषु समधिगतखावासस्तंभेषु नानाविधेषु शकुनिषु स्वस्खकुलायनिलीनेषु मंदस्पदेषु विटपिषु विरतरावतया जपदिव विरक्तमिव समारूढनिद्रमिव चाभवदुपवनम् ।
अथ क्रमेण कलानिधौ सूत्रधार इव मनोभवविजयनामो नाटकस्स तमोयवनिकामाक्षिपति निजकरैः भृङ्गमृदंगझंकृतिभिश्चकोरीनटीमधुरगानैश्च कुवलयमापूरितमभवत् । वसुमत्यामपि जयंतिकायामिव स्मरानलज्वालया चन्द्रिकया धवलीकृतायां विजृभमाणकुसुमबाणप्रहरणपरितप्यमानमानसा सा तु जयंतिका मनोभवतापग्लपितशरीरतया नियुज्य कैतवेन सखीजनान्कस्मिन्नपि कर्मणि खयमेकाकिनी निर्गत्य तस्मान्नातिदूरे