________________
130
जयन्तिका
को वा शक्नोति भवितव्यतां निवारयितुम् ।
अहं तावद्विमानादवरुह्य रिंसया तां कुरंगशाबाक्षीं अक्षीणलावण्यां न्यक्कृतसुरपण्यांगनां सकलतरुणहृदयदरीकेसरिणीमिव प्रविशंती मानसविनिहितजीवसेनां समुत्कीर्णामिव लिखितामिव प्रत्युप्तामिव कीलितामिव निष्पंदांगकां जयंतिकां मन्दं मन्दं समुपसृत्य पश्चादसितायते तस्याः नयने पिधातुकामः प्रसारितवान्पाणियुगलम् । पश्चात्प्रसारितपाणियुगले च मयि तन्मुखाभिमुखं चिंतानिस्तरलस्वांततया साध्वसेन समुत्क्षिप्तेव विधुतेव चालितेव च सरभसं समुत्थाय मामवलोक्य कंपमानहृदया रोषकषायितलोचना भ्रांतचित्ता चक्रवातूलभ्रामितेवास्थिरस्थितिरितिकर्तव्यतामूढा धावितुमप्यस्वाधीनचरणा निरतिशयावेगानिस्सृतवाणी स्तंभितगात्री क्षणमिव तस्थौ । तादृशावस्थां तामवेक्ष्य विलक्षोऽहं ननु पक्ष्मलाक्षि! किमिदमकांडे भीतिः १ कोऽयं संभ्रमः ? कुतो वा आवेगः ? पश्य मां गन्धर्वपति चित्ररथम् । पूरय मे मनोरथम् । दैवयोगादागतोऽस्मि । भवादृशमनुष्याणां मादृशगंधर्वसम्बन्धो दुर्लभः। दिष्टया संघटनमिदम् । भवती तावन्निरतिशयसुकृतवतीति जानामि । यतोऽहं स्वयमागतः । तदिदानी शंबरारिशरविधूर्णितचेतसः भवदधीनस्य पूरय मे मनोरथम् । व्रजतु ते सौन्दर्यमिदं सार्थक्यम् । लावण्यमिदं तारुण्यमिदं सौकुमार्यज्वेदं मास्तु काननचन्द्रिकाकल्पम् । अनल्पाभिलाषकषायितस्वांततया परवशोऽस्मि । दयां कुर्विति सविनयमकथयत् ।
तदा सा स्तोकमिव लस्तसाध्वसा सोल्लुठनं किमिदम् ? महदिदमाश्चर्यम् । मानुषी योषितं मामभिलषसि गंधर्वपतिरपीति । देवविशेषे लब्धजनिरपि स्वाश्रितजनमनोवैक्लब्यनिवारणशक्तोऽपि कृत्याकृत्यविवेकनिधिरपि मनशैथिल्यलब्धविकारः केवलं कामपरतंत्रः मय्यनुरक्तोऽसि । हंत ! किं ब्रवीमि ? तद्विरम । जीवसेनमंतरा नाहमन्यं कटाक्षेणाप्यवलोकयामि । तदितः क्षिप्रमेव प्रस्थितो भवेति सामर्षमब्रवीत् । तदाकर्ण्य