________________
चतुर्थलहरी
131 दैन्येनाहं तु ननु कल्याणि ! किमिदमेवमभिधीयते ? देवविशेषो मनुष्येषु कृतानुरागो दृष्टपूर्वश्रुतपूर्वश्च । मेनका विश्वामित्रमकामयत । पाकशासनोऽप्यहल्यामूवश्यपि विक्रमम् । किं बहुना ! बहवो देवविशेषा मनुष्येध्वनुरक्ताः । तदलं विचारेणेति यदा तदालिंगनोत्सुकोऽभवं, तदा भीतभीता पवनप्रकंपितकदलीव कंपमाना मानातीतामर्षस्फुरदधरपुटा सा जयंतिका मूर्ख ! तिष्ठ तावडूरे । यदि कदापि जीवसेनमंतरा नान्यं पुरुष मनसापि चिंतयेयम् । नृशंस ! राक्षसी वृत्तिमाश्रित्य विरचितकरालकर्मतया प्राप्तो भव नृशंसतानुरूपामस्रपतामित्युक्त्वा सरमसं तस्मान्निरगात् । तस्याः पातिव्रत्येन भवेयमेवमेवेति निश्चित्य भिया तामनुगतः दैन्येन सांजलिबन्धं ननु महाभागे ! क्षमस्व मदीयमिममपराधम् । धिङ्मम स्मरपारवश्यम् । कृपया शापावधिमनुगृह्य पालय मां इति प्रार्थितवान् ।
___ तदा सा त्वनुकंपया किंचिदिव विचिंय यमनवरतमपि चिंतयामि तेनैव जीवसेनेन निषूदितश्शापान्मुक्तो भविष्यसीत्यभिधाय सरमसं प्रासादं प्राविशत् । शप्तश्च तया संतप्तहृदयः परिगृहीतभयानकयातुधानजन्मा घोरतरे कांतारे पर्यटन्सत्वपिशिताहारः तपस्विजनानां तपो विघटयन्मखप्रियोटजतटविशङ्कटाटवीमेनामगमम् । ततश्चिरं पर्यटता मया तावदाचरिते मखप्रत्यूहे प्रकुपितस्त्वया स मखप्रियो मारयामास माम् । वत्स! जीवसेन ! मम तावन्निशाचरजन्मनो निदानमेतदेव त्रिकालज्ञेन तेन मुनिना मखप्रियेणानुजिघृक्षया भवानेव नियुक्तो मम निशारणाय । ननु सोऽयमसि जीवसेनः। यश्च पञ्चशरशरविशीर्णहृदयया तयानुचिंत्यते । तात! मा भूदियता कालेन येन केनापि सा परिणीता स्यादिति मनसि चिंता । न तावदतीतो महान्कालः । किंतु शापग्रस्तेन मया नीताः षण्मासाः । किञ्च कुत्र वा याति भवंतमंतरान्यत्र तञ्चित्तम् ? निरंतरमपि भवंतमेव चित्रगतं समीक्षमाणा सखीमुखाद्भवदुदंतमेवाकर्णयन्ती भवद्धयानैकाहारा कालमतिवाहयति । तदितो यावदभिलषस्यदर्शनं न तावत्