________________
जयन्तिका
मपि। न बिभेमि च ते विभोषिकायाः । भवादृशाः पुरा दृष्टा मया धूर्ताः । दण्ड्योऽसि राजविरुद्धभाषी त्वम् । ब्राह्मण्यमनुचिंत्य मया क्षांतमागः । मा तिष्ठ चिरं धुरि । गच्छ रे ! यथागतं तथैवेति प्रत्यवदत् ।
1
निशम्य श्रवणपरुषं नरपतेरुद्धतं भाषितं रोषकषायितलोचनः कंपमानाधरः समुद्धूयमानभुजदंडो धूमायमानकोपपावकदह्यमान इवारुणतरशरोरो विप्रकृतस्सरीसृप इव तारतारनिश्श्वासभयानकस्समुन्नतकंधरासिराजालस्तपोधनस्तर्जनीधूननेन तर्जयन्किमु रे ! नराधम ! न मे सांत्ववचनस्य भाजनमसि । मत्तकाशिनोमंडलकुंडलित चंडजल्पितेन मामप्यभिभवसि । तन्न भवसि । शृणु रे ! मूर्ख ! यासां संपर्काच्छुभोदर्कं कर्मापि न गणयसि तासां विलासिनीनामितः परं संयोग एव ते प्राणवियोगाय कल्पतामिति शप्त्वा सरभसं प्रासादान्निरगच्छत् । तत्क्षणमेव सर्वाश्च कामिन्यः विवर्णवदनाः सावेगं प्रतीहारदेशमुपगम्य हा ! तापसपुंगव ! हता वयं त्रायस्वास्मान् विमोचय वल्लभमेनं शापात्। गृहाण गुरुदक्षिणाम् । भवदीयमेव हि प्राज्यमिदं राज्यम् । न हि किमु दया तवाबलास्वस्मासु निर्गतिकास्स्मः । निरवलंबनास्स्मः हंतेति परिदेवनपरास्तं तपोधनमनवलोक्य निष्फलाभ्यर्थनाः पुनरपि प्रविश्यांतःपुरं विषण्णं चिंता भरावनमितमस्तकं मस्तकतलविन्यस्तहस्तं वल्लभमभितो दीनवदनदर्शितविषादा न्यषीदुः ।
सुगंधनस्तु त्यक्तगंधोऽप्यात्तगंधः चिंतासंतानतांतस्वांतः शिलाविलापनप्रटुविलापाद्धृदयदारांस्तान्दारानवलोक्य दीर्घमुष्णं च निश्वस्य चिरं विचिंत्य चेत्थमकथयत् । अयि ! मदेकजीविताः ! हरिणक्षणाः । अलं विलापेन कालायत्तं हि जगदिदम् । यदेह जगति जनिः तदैव चेतनमनुजायते द्वंद्वपरंपरा । तदेतावंतं कालमनुभूतं हि सुखं, दैवदुर्विपाकादिदानीं दुःखमनुभवितव्यं संवृत्तं । तदहमधुना वैखानसवृत्तिमवलंब्य कांतारहितः कांता - रमभिगमिष्यामि । यतो भवतीनां सान्निध्यं दंडधरसान्निध्यं नेष्यति मां । कामो हि दर्शनलब्धविवेकमपि अंधयति मनुजं सदुपदेशश्रवणावसरे बधिर -
104