________________
तृतीयलहरी
105
यति। पित्तविकार इव स्मृतिमप्यपवाहयति । तदवश्यं कथमपि परिहरणीयं विषयसान्निध्य इति। एवमभिधाय विसृष्टप्रकृष्टविष्टपसौख्यः प्रतिनिवर्त्य चानुसरतो वधूजनान्सांत्ववचनैस्सुगंधनो विविधतरुबूंदैः परिवृतं धवलप्रसवतारकितं गिरितटनिपतन्निर्झरमुखरितं गहनमवगाह्य समुज्झितभूषः परिगृहीततापसवेषः विसृष्टभाषः क्षितीश इति प्रोत्येव प्रसारितशाखाबाहुभिमहोरुहैवितोर्णानि फलानि भुंजानः कौशेयमृदूनि किसलयान्यधिशयानः मुनितिरस्कृतिकृतानुशयः कालमत्यवाहयत् ।
एवमतिगते काले कदाचिदस्मिन्मधुराधिपे सिष्णासुस्त्रोतोरसितवाचालितदशहरितं सरितं समवतरति तस्य चोर्ध्वदेशात्कलहंसनादसुभगं भूषणरसितमुदचरत् । श्रुत्वा च सरित्सलिलपरीवाहावतीर्णोऽयं मंजुतरं शिंजितं श्रुत्यानंदकरं सविस्मयं तस्यामेव हरिति प्रेरितनयनः कांचन कांचनमालावलीढकंधरां तरंगाहतिशिथिलितविलुलितधम्मिल्लां परीवाहरयाभ्यर्णनीयमानां तपनीयकान्तितनुकांतिकृतस्वर्णोमिमालां सौंदर्यमंदिरशरीरामिंदिरामिव सुन्दरी दूराद्ददर्श । दृष्ट्वा च तरंगपरंपराभिहन्यमानां परोवाहरयवशान्निजोपकंठमागतां तामुद्धृत्य पाणिभ्यां दरीसक्तहृदयोऽपि सुन्दरीसक्तहृदयस्सः नरपतिः करुणया तटीमनोनयत् ।
तदनु स्नातोत्थितो नृपालस्सलिलतिमितचेलतया स्फुटलक्ष्यमाणप्रत्यवयवतया प्रवृद्धकामः जलसिक्तविलुलितकेशपाशावगुंठितललाटतयाधग्रस्तविधुमंडलमिव मुखमंडलमुद्वहन्तीं स्वस्तिकीकृतबाहुलतायुगलपरिपिहितोन्नतपयोधरां तरंगसंपर्कादिव तनुसक्ततरंगायमाणार्द्रवसनामसकृद्धसनांचलपरिपतत्सलिलबिंदुपरंपरापरिषिच्यमानकोमलजंघाकांडामाांशुक - निबिडासक्ततया दर्शनीयसमुन्नतपृथुलनितंबबिंबां लावण्यमयीं सौन्दर्यनिधि तामवलोक्य शंबरारिशरविशीर्णहृदयो विस्मृतमहामन्युशापः तत्तनुस्पर्शादंचितरोमांचजालमपि शीतलसलिलावगाहनिमित्तमिव प्रकटयन्ननुकंपया रिंसया चापृच्छत् । अयि ! सुतनु ! का त्वमिहागत्य सरित्स्रोत
J-14
त