________________
26
जयन्तिका कुत्रचित्तुलसीकाननपरिमलाकृष्यमाणजनताघ्राणं कुत्रचिद्विविधविचित्रवर्णप्रसूनप्रकरविडंबितनवरत्नकुट्टिमं कुत्रचित्क्षुद्रशिलोच्चयनिशितशिखरनिकरविशीर्यमाणदिनकरकिरणद्रवीकृतघनतरपालेयप्रवाहरयसमुत्कीर्यमाणशीकरसंक्रांतत्रयीतनुमयूखतया नवरत्नमालालंकृतमिव कुत्रचित्सुरधुनीपरीवाहकलकलनादश्रवणोत्कंठनीलकंठस्तोकाकुंचितकंठं समुपचीयमानहिमानीपिहितगिरिकंदरतया ससंभ्रममन्विष्यमाणनिजकंदरं परिभ्रमद्भिर्वनमानुषैः विशदतुहिनसावाद्रसितानुमेयहंसकुलं कुत्रचिन्मिहिकानिवहावगुंठितसमुन्नतशिखरिनिपतितसूर्यातपतया कनकफलकनिचोलितमिव कुत्रचित्तहिनकरंबितनिपतन्निर्झरझरीनिपतितरविकिरणतया रजतद्रवधुनीशंकामुपजनयंतं कुत्रचिद्विचित्रवर्णशबलितपृथुलमंडूकप्लुतिमुद्रितचरणरेखास्थपुटितकर्दमदेशं कुत्रचिदेलालवंगलवलीपिप्पलिकाप्रायतरुलतासंकटं कुत्रचित्परिणतपतितविततपत्रपटलमर्मररवमुखरिते भूर्जतरुतले शयानैः कोरकितलोचनैः समारब्धरोमंथैः वातायुव्रातैरभिरामं कुत्रचित्पर्यटद्भिर्वालकलापोसार्यमाणनीहारैश्चमरीमृगैरतिरमणीयं कुत्रचिन्मृगयुगणपरिधाव्यमानपरिश्रान्तकस्तूरिकामृगनाभितलप्रसमरगंधसुरमितं कुत्रचिद्भयंकराकारशाखामृगगणपरिचाल्यमानसमुन्नतदेवदारुतरुदीर्घतरपृथुलशाखाशिखरसमुत्सार्यमाणतुषारसंततिं कुत्रचिदुच्छ्रितशिखरादसकृत्सनिर्घोषं परिपतद्भिन्डशैलनिकरैरतिभयानकं कुत्रचित्कुसुमापचयोत्सुकानां कुसुमशंकया लताशिखरलग्नेषु तुहिनपुंजेषु विनिहितकरपलवानां वनदेवतानां हासरवमनोहरं कुत्रचित्तापसपर्णकुटीरवाटीदर्शनीयं कुत्रचिद्धवलभल्लूकपरंपरांबूकृतलालाबुद्दजालजनिततुहिनसंततिशंकं तत्रतत्र कैश्चिदुन्नमितबाहुभिः दक्षिणोरुतलविनिहितवामचरणैरविरलचीरांबरधारिभिः अवनिविनिहितप्रपदैः कैश्चिदाबद्धपद्मासनैः लंबमानपाटलजटैः निभृतोन्नमितपूर्वकायैः बद्धांजलिपुटैः निमीलितलोचनैः कैश्चित्कौपीनमात्रवसनैः पवनाहारतया कृशांगकैः उन्नमितोरस्स्थलास्थिपंजरैरधोमुखं तपश्चरद्भिश्च तापसजनैस्संसेव्यमानं