________________
चतुर्थलहरी
निवहे वाक्कलहे प्रागल्भ्यं प्रदर्शयतो द्रविडजरतीजनाननुकुर्वद्भिः विटपिभिमनोहरं, नानानोकहनिवहपरस्पर निरंतराश्लिष्टच्छदविच्छुरितविटपपटलाच्छादितांतरिक्षतया तमोमयं शीतलप्रचलत्प्रकंपनप्रकंपितप्रताननीप्रसवप्रकरप्रसृमरसौर भसंभृतमुत्तुंग महीभ्रप्रपातनिपतन्निर्झररवमुखरितं, तत्र तत्र पाणियुगलावलंबित पृथुलमही रुहमूलैः धरणितलविनिहितचरणैः उन्नमितकंधरैः उत्क्षिप्ताक्षिसूक्ष्मतरपक्ष्मभिर्विपिनमभितो विलोकयद्भिरत्युन्नतैः स्थूलस्थूलैरतिभयानकैर्विविधशाखामृगैः प्रकाश्यमानसाध्वसं निबिडतरकुंजपुंजशाद्वलहरिततया केकारवानुमेयके किकुलमुदग्राग्रदर्भपटलतया तदभ्यंतरसंचरणपरैः हरिणमंडलैरतिरमणीयं, प्रदेशमदृष्टपूर्वमेकमपश्यत् ।
149
प्रविश्य च तदनातपं तपोवनं विटपिवाटांतरे पर्यटन्तं तापसमिव दूरादेकमद्राक्षीत् । तद्दर्शनमात्रेण जीवसेनबुद्धया ससंभ्रममुपसृत्य निर्वर्ण्य च वितथमनोरथा दीर्घमुष्णं च निश्वस्य भगवति ! पापकारिणी सत्यकीर्तिदुहिता जीवसेनपरिगृहीताप्यधुना तावदनाथा जयंतिका प्रणमतीति निवेदयन्ती नयनसलिलधारासारप्रक्षालिततच्चरणारविंदा सप्रश्रयं बद्धांजलिपुटा तस्थौ । तदा सा तु तापसी तपस्विनीमिमामवलोक्यानुकंपया वत्से ! विदितमेव ते पितृभर्तृनामधेयम् । का ते माता ? कुतो वा काननमिदमतिदुर्गममनाथेव समागतवती ? किमर्थं रोदिषीति पृच्छंत्येव तया सहानतिदूरवर्तिनीं निजगुहां प्राविशत् । प्रविश्य च तां जयंतिकामुपवेश्य चैकदेशप्रतिष्ठापित शिलापीठे स्वयमपि परिगृहीतकृष्णाजिनासना पप्रच्छ । निवेदय भवदुदंतमखिलमपीति । सा तु जयंतिका मुहुर्बलात्कारेण परिपृष्टा सबाष्पगद्गदं समंदाक्षं च व्याहरंती निजोदंतं दुःखातिरेकाद्गतचेतना पपात वसुमत्याम् । सावेगमुत्थाय च सा तापसी कमंडलूदकसेचनतालव्यजनकर्मणा विधाय च सचेतनामेनां मंदमुत्थाप्य च वत्से ! मा रोदीः । यदा च जनिरिह तदैव दैवनियोगादनुपतति सुखमिव दुःखमपि शरीरिणम् । तत्किमनेन परिदेवनेन १ जननांतरोपार्जितं कर्मफल