________________
150
जयन्तिका
मनुभवेनैव परिहरणीय, नान्यधा । तत्समाधेहि । स्वांतं निधेहि परमकारुणिके भगवति । स तु तारयिष्यति दुःखसागरादिति तां सांत्वयामास ।
तदनु दमितदुःखभरा सा तु मृगाक्षी वीक्ष्य च गुहाभ्यंतरमभितः प्रसमरतपनबालातपद्युतिमेकत्र शंकुलंबितां माणिक्यमालामालोक्य सविस्मयं कुतस्त्येयं मालिका ? का त्वम् ? का ते माता ? कस्ते पिता ? किं ते पूततम नामधेयम् ? कुतो वैकाकिनी निवससि दुर्गमे कानने तावदशरण्या लब्धतारुण्यागण्यलावण्यपण्यापि । न हि ते सौन्दर्यमिदं तावदुपपादयति तापसीत्वम् । कुतो वा तवेदृशो वेषः ? सूचयति ते मुखकमलमिदं कमप्यंतस्संतापम् । कृपया निवेदय भवदुदंतमखिलमपीत्यप्राक्षीत् । पृष्टा च सा तापसी दीर्घमुष्णं च निश्श्वस्य समुद्गलदश्रुधाराप्रक्षालितकपोलस्तनमंडला सनिर्वेदं वत्से ! प्रगल्भासि ! मन्मुखावलोकनमात्रेण विदितमदंतस्तापासि । हन्त ! भवत्या तावत्स्मारितपूर्ववृत्तांतास्मि । तत्स्मरणमात्रेणापि दहति मे हृदयं दुःखानलः । किमुत तयाहारेण ? तथापि कथयामि ते मंदभाग्याया ममोदन्तम् । यतस्त्वमौत्सुक्यस्पृष्टहृदयासि । शृणु तावदस्ति चित्रपुरे सुशीलावल्लभो वीरकेतुर्नाम सार्वभौमः। सत्वनपत्यतादूयमानमानसो धर्मैकतानो निरंतरक्रियमाणावदातकर्मा चिरेण प्रसादोन्मुखदेवतानुग्रहान्मामेकं पुत्रमलमत । तदनु सुकेशः इति नाना समाहूयमाने मानोन्नते मयि प्रादुर्भवति तारुण्ये, तारुण्यकंदलितकायकांतिविशेषः कदाचिदहमेक एव मृगयालालसमानसः तुरंगमाधिरूढः प्ररूढानेकानोकहकांतं कांतारमासाद्य तत्र तत्र निहत्य च सत्वगणान्क्लान्तः श्रमापनिनीषया तत्रैव प्रच्छायशीतलं तस्तलमधिशिश्ये । निद्रापि द्रागेव मद्रामणीयकाकृष्टा विलासिनीव संमुद्य मदृग्युगलं द्रावयामास श्रममखिलमपि।
तदनु गलितगहनश्रमोऽहं परिमृज्य नयनयुगलमुन्मील्य च मञ्चरणतले निषण्णां मनसिजकृषिकपोषितहृदयालवालकंदलितानुराग