________________
चतुर्थलहरी
151 लतापल्लवाभ्यामिव कोमलाभ्यां पाणिपल्लवाभ्यां संवाहयन्ती मच्चरणयुगलं तापसतरुणीमेकामपश्यम् । विलोक्य च ससाध्वसावेगं समुपविष्टः सप्रश्रयं यदा प्रणतिपरोऽभवं ; तदा सा तु तापसतरुणी सविभ्रमं त्रपाभरनतोत्तमांगी कुमार ! मा चर प्रणतिम् । पूरय मे मनोरथमिति निवेदयन्तीव भ्रूभंगेन पञ्चशरशरहतिवेदना प्रकटयन्तीव मकरकेतनपरतंत्रास्मि इति मंत्रयमाणेव स्पंदमानाधरपयोधरा क्षितितलदृष्टिर्नखमुखच्छिद्यमानतृणा भवता तावदनंगीकृतेयमहमेतत्कल्पेति सूचयन्तीव गात्रकंपकैतवेन प्रकाशयन्तीव मनोभवभयं निरतिशयानुरागदिग्धं निजाशयमाविश्वकार।
अहं तावदवगम्य च सम्यक्तदाशयं तस्या भीतभीतस्तावदलमनया मदनविकारपरंपरया ननु मृगाक्षि ! प्रत्यक्षीकृतपरोक्षप्रवृत्ताखिलव्यापाराणां तपोधनानां ज्वलदमर्षज्वलनज्वालामालायास्तदा शलभो भवेयम् । यदि च पूरयेयमहमधुना तवेदृशं मनोरथम् । तन्मुंच मामिति तत्पादयो~पतम् । तथापि सा तु सानुनयं किमिदमेवमभिधीयते ? स्वयमागतां वृषस्यन्ती परित्यक्तमुचितं वा ? धर्मज्ञोऽसि। को वा युवा मामीशी स्वयमागतां त्यक्षं कामयते ? यद्यपि तपोधनाः परोक्षचक्षुषः तथापि मामेवापराधिनी मन्यमानाः वात्सल्यातिरेकाद्भवद्विषये क्षमाशीलाः भविष्यति । तत्कृपया मामुररीकुरु । मा मुञ्च मामिति बहुधा प्रार्थनैकताना तस्थौ । अहं तु सुचिरं विचिंत्य समुपलब्धविवेकः तन्मनःपरिवर्तनायेत्थमकथयम् । ननु मुग्धे ! कल्याणि ! नृशंसः खल्वनंगः ! स त्वशरीरः पिशाच इव पीडयति शरीरिणम् । तदाविष्टः त्यजत्याहारमिव लज्जामपि । निद्राविहीनः पर्यटत्युन्मत्त इव । नैव गणयति गुरुजनमिव निजकुलगौरवमपि । स्वाभिलषितलाभैकदत्तदृष्टिस्तपस्खीव ध्येये विनिहितमनास्सततमपि चिंतयति। तदर्थ दुस्साधमपि कर्म करोति । किं ब्रवीमि मकरकेतोश्चातुर्यम् ? स तु दृगगोचर एव सुकुमारकुसुमशरप्रयोगेण ज्ञानिनमपि विवेकिनमपि वशीकृत्य पुत्रिकानत नर्तयति। प्रायशो जगति