________________
जयन्तिका
मनुजस्तु निजमनोवृत्त्यनुगुणतया कुर्वन्नधर्मं धर्म्यत्वेनोपपादयति । कामिनो मनसि स्वेच्छाक्रियमाणासु कामचेष्टासु नोदेति दोषमनीषैव । भवत्यपि तावदेवमेव विवेकिनी मनसि विचारय भावि क्लेशम् । मा भव मनोभवपरवशा । तदलमनया प्रार्थनयेति ।
152
एवं प्रतिबोधितापि सानुनयमनभ्युपगंतारं दूरीकृतरतिसारं मामतिकुपिता वितथप्रार्थना सा तु तापसतरुणी भवतु " भवानपि लब्धस्त्रीभावस्तारुण्ये तावदप्राप्तपुरुषसंपर्कसुखविशेषः विपिनवासरतः” इति शप्त्वा सबाष्पं सरभसं निजाश्रमोपकण्ठमधावत् । ततश्वाहमुद्विमहृदयो दीनदीनस्तामेवानुसरन्बाष्पपूरपरिप्लावितनयनस्समासाद्योटजवाटं तापससंसदि न्यपतम् । तत्रत्यास्सर्वेऽपि सानुकम्पं कंपमानतनुमतनुदैन्यक्लांत वदनं मामवालोकयन् । ततश्च पृष्टोऽहं प्रह्वभावेन न्यवेदयं तदुदंतमखिलमपि । श्रुत्वा च तेषु कश्चन जरत्तरः तपोधनः कृपापरवशमानसः तामुपालभमानः निजमणिबन्धबद्धां माणिक्यमालामालोक्य सुचिरं विचित्य च वत्स ! मालामिमामंगीकुरु चिरं जीवेति मणिबन्धादवमुच्य दत्वा च मह्यमकथयत् — कुमार न कदापि वंध्यो भवति सत्यवचसां शापः । तत्सिद्धमेव स्त्रीत्वम् । तदलं चलितानुशोचनेन । माला पुनरियं योषामपि पुरुषमिव तनोति यादृशमनुचिंत्य पुरुषाकारं निबध्यते मणिबन्धे । न तु पुंस्त्वं समुलभ्यते । किञ्च धृत्वेमां भूत्वा च पुरुष इव यदि क्वापि नाशयेदेनां ततश्च विना मालया पुनस्सा दुर्लभैव योषाकृतिरपीति ।
अहं पुनरादाय सविनयं तां मणिमालां न यदि स्यां पुरुषः किमनयेति विचिंतयन्नपरिमितदुःखदहन दह्यमानहृदयो नारीत्वमधिगत्य निजनगरमगत्वैव तापसीवास्यां गुहायां न्यवसम् । ततश्च मम जनयिता वीरकेतुस्सुतविरहसंतप्तमानसस्समंततोऽन्विष्य स्वयमेव मामदृष्ट्वा विषण्णहृदयोऽस्मिन्नरण्ये पर्यटन्नविगणिताटवी पर्यटनक्लेशो मार्गवशादुपेत्य गुहामिमां मामवलोक्य निरर्गलनिर्गलदश्रुधाराप्रक्षालितकपोलफलको बद्धांजलि -