________________
चतुर्थलहरी
पुटो निवेदयांब ! दयया । अपि नाम दृष्टो मृगयायातष्षोडशवत्सरदेश्यो मारोपमरूपो राजकुमार इत्यपृच्छत् । अहं तु तडुःखदर्शनद्विगुणितसंतापा तावदचिंतयम् । अहो ! प्रेमबन्धः । हन्त ! वात्सल्यम् । जगत्यनपत्यतैव दुःखजननी । चिराद्वतादिना प्राप्तपुत्रस्य पुत्रविश्लेषोऽनिर्वचनीयक्लेशवर्धको हि ! नितरां कुकूलानलवद्रात्रंदिवं दहति हृदयम् । कथमहं नापश्यमिति निवेदयेयम् । तदाकर्ण्य कीदृशीं दशामनुभवत्ययम् ? अपि नाम पृच्छेयमंबा कथमिति ? नैतदुचितमिव । हन्त ! जननी तावत्कथमिव सहते मद्विरहम् । भवेदपि परित्यक्ताहारा निर्निद्रा च बाष्पसलिलैः प्रक्षालिततनुतनुः क्षणमपि युगवदतिवाहयन्ती जगदखिलमपि दुःखमयमिव पश्यन्तो मन्नामप्रलपनपरा चेति विचित्य वज्रसारकठोरस्वांता पिहितनिजोदता विषयेषु दूरीकृताभिमानतया बन्धुषु निस्पृहतया प्रेमबन्धस्य त्याज्यतया च नाज्ञासिषं तव तादृशं तनयमिति दुःखितमपि पितरं प्राहिणवम् । तत्प्रभृति गुहैकशरण्यापि नारायणैकशरण्या करोत्पाटितभुक्तवनजनेत्रापि विलसदतिस्पृहणीयवनजनेत्रा विटपिशाखेव त्वगंबरावृतापि फलशून्या योषिदाकृतिविदार्यमाणहृदया विविक्तेऽस्मि - न्नरण्यं वसामीत्यकथयत् ।
तदवकर्ण्य जयंति का संतप्तहृदया धिङ्कारीणां चपलताम् । धिक्तासां तारुण्यम्। धिक्पुरुषसौंदर्यैकलोलुपताम् । कामिनी तु सौदामनीव प्रदर्श्यात्मकांतिमन्धयति चक्षुः । मृगतृष्णेव तृष्णोपशमनजीवनाधारभ्रांतिमुत्पाद्य हरिणमिव तरुणमपि सुदूरं धावयति । कुसुममञ्जरीव रूपगंधसंपदा वशयति जनहृदयम् । महदिदमाश्चर्यम् ! यौवनं तु नारीणां गंधर्वनगरमिव क्रमेण विशकलितं रूपांतरमापादयति । न स्थिरं तत् । तादृशतारुण्यपरिभूताश्चेष्टन्ते कामिन्यः । अत्र तावदहमेव निदर्शनमिति सगद्गदं विललाप | सा तु तापसी रुदतोमेनां जयंतिकां बहुधा सांत्वयन्तोत्थमकथयत् । वत्से ! मा रोदोः । धैर्यमवलंबस्व । मा भून्मनसि चिन्ता । द्रक्ष्यसि
J-20
153