________________
जयन्तिका
1
प्रदर्शयिष्यामि ते मुखमिदम् । भो ! भो ! नृशंसाः ! वन्या मृगाः ! निजवल्लभेनैव दूरीकृतया किमनयेति यूयमपि दुरितकारिणीं मामिमां परित्यजथ । भक्षयित्वा च मां परुषहृदयां पूरयत स्वोदरं, मन्मनोरथमपि । हन्तार्यपुत्र ! किंवा मयापराद्धम् ? किमर्थमयममर्षः ? निरनुक्रोशो ऽसि । विश्वासघातुकोऽसि । बहुधैवमरण्ये प्रलपन्तीमेकाकिनीं भीतभीतां मामवलोक्यापि नानुकंपया कंपितहृदयोऽसि । कुरंगा अपि तरंगितेक्षणा मदुःखासहिष्णुतया बाष्पसलिलकलुषितकपोलाः परित्यक्तशष्पकबलास्समुन्नमितमुखास्समाश्वासयन्त इव सहुंकारं मामनुवर्तते । हन्त ! न ते धर्मः । नापि कृपा । न गुणपक्षपातित्वम् । नाप्याश्रितजनशीलपरिशीलनम्। न हि दुःखिजनदुःखनिराकरणचणं हृदयम् । अहो ! वञ्चनशीलता ! कठिनहृदयता ! विस्रब्धघातुकता ! निरनुक्रोशता ! प्रतारणपरता ! हा ! नाथ ! कासि ? देहि मे प्रतिवचनम्। क्क लीनस्ते तादृक्प्रेमपरीवाहः १ कृपया मामेकवारमाकारय । किमु परिहासार्थं तया तिरोधानविद्यया पार्श्व एवांतर्हितशरीरोऽसि १ अलमनेन परिहासेन । साध्वसेन जर्झरितहृदयास्मि । इति बहुधा विलपन्ती कंटकजालमप्यविगणय्य स्थपुटितस्थलमप्यनालोच्य गर्तमप्यनाकलय्य समुन्नतदेशमप्यविचित्य निबिडतरकुंजपुंजकुहरमप्यलक्षीकृत्य दशसु दिक्षु दत्तदृष्टिः बाष्पाविललोचनतया काननमखिलमपि सलिलमयमिव पश्यन्ती शोकेन साध्वसेनावेगेनोन्मत्तेवागणितशरीरश्रमा निराहारा वल्लभैकहृदया सुदूरमामध्याह्न परिबभ्राम |
148
अदृष्टपूर्वामिमां द्रष्टुकाम इव गगनमध्यमधिगतवति चण्डकिरणे नखंपचातपासहिष्णुतया प्रच्छायान्वेषणपरा जयंतिका कतिचित्पदानि गत्वा रसालसालपरिवृतं तमालमालाशीतलं नमेरुमहीरुहपरीतं विविधपत्ररथत्रातकलकलबहुलैः वलिविलुलितत्वक्चलितप्रचालितशाखाभुजैः धवलप्रसूनपटलपटावगुंठितशिरोभिः गलितरदनराजीनतिशैत्रचादपरिस्फुटाक्षर