________________
147
चतुर्थलहरी चिच्छिलींध्रनीरंधिते कुत्रचिद्विकचकनकसवर्णकुसुमकोशनिरवकाशकेतकीपरंपराकंटकिते कुत्रचिदचलप्रस्थप्रस्थितनिझरझरीरवमुखरिते कुत्रचित्परिवहदरुणनीरपूररयनामिततीरवेतसतरुबहुले कुत्रचिन्मरुत्तरलितविकचकुटजकुसुमपटलपरिमलसुभगे कुत्रचित्पुलिंदसुन्दरीजनापचीयमानविकचकेतकीकुसुमपरागधूसरिते कुत्रचिद्दीर्घघोणाशिखरविदारितानूपांतःप्रवेशितवदनैः सामोदं मुस्ताकंदबृन्दं चर्वद्भिः धुर्घररवतिरस्कृतघरदृघर्घरध्वानैः कर्दमितकायैर्वनवराहैरतिभयानके कुत्रचिदाकर्दमचर्चितकठिनपृथुलकृष्णकायनिकषणविशीर्णत्वक्पटलपादपस्कंधदेशैः मदभरारब्धपरस्परकलहतयात्यायतावनमितकठोरकुटिलविषाणमंडलसंघट्टनटीत्कारराववाचालितदिगन्तरालैः लुलायपटलैरतिभीषणे, कुत्रचिदुच्चतरुनिपतितवलीमुखापह्रियमाणविशीर्णबीज पूरफलादित्सया सरभसमनुधावद्भिर्मल्लकैराकुलिते, कुत्रचित्तरुमूलनिबद्धविषाणमंडलाः वनमहिषीः कैश्विदूराकृष्यमाणतद्वालैः कैश्चिदुग्धं दुहानैरयोविरचितैरिवासितकठिनकायैः निजाकारप्रकाश्यमानक्रूरकर्मभिः वनशबरैः परिवृते, कुत्रचिद्विराटावरोध इव बृहन्नलाक्रांते महारण्ये तावदशरण्या हा ! नाथ ! नावेक्षसे किमु मामीदृशीमनाथां पर्यटन्तीम् ? किमु भवता तावदभ्यस्ता विद्येव विश्वासघातुकतापि। किमिदमुचितं नरपतेः शरणागतजनप्रतारणम् ? किमु लभसे मादृशीं अबलां भवदेकशरणां प्रतार्य ? शुभोदकं नन्वार्यपुत्र ! भवत्प्रतिकृत्यवलोकनप्रभृति भवन्तमेव सर्वस्वं मन्वानायाः परित्यक्तात्मबंधुजनतायाः भवदनुगमनैकतानायाः मम तावकिमिदमेव फलम् ? हन्त ! दुर्लभं ते दर्शनमिति रुदन्ती प्रियसखीं मरालसेनां सत्वरमागतां मामवेहि मुहुरिति सांत्ववचनैस्समाश्वास्य भवंतमेवानुव्रजन्ती मामबलां दुर्गमे निर्गतिकां विधायैकाकिनी गतोऽसि ? पुनरपि कथमिव प्रदर्शयेयं मुखमिदं सख्यै ? हन्त ! तात ! सत्यकीर्ते ! प्रेमातिरेकेणात्मप्राणनिर्विशेषं मां परिपोषितवतः ते मामनवलोक्य कीदृशी दशा भवेत् ? अम्ब ! चिरमनुभव दुहितृविरहदुःखम् । नाहं पुनरपि