________________
द्वितीयलहरी असिलतावतंसितांसतलैश्चतुर्भिरंगरक्षकैरभिरक्ष्यमाणोभयपार्श्वभागो वंदिवृंदपरिपठ्यमानमनोहरबिरुदावलिमुखरितपुरोभागो नीरवं गभीरतरं निश्चंचलं च स्वस्वस्थानेषु पंक्तिश स्थितान्मुकुलित करसरोरुहान्सभास्तारान्कटाक्षेणैव संभावयंस्तपनीयसोपानपरंपरामनोहरं शिखरघटितमुक्तातपत्रापहसितफणिपतिफणामंडलाभोगवैभवं स्पृहणीयनवरत्नमय विचित्रपुत्रिकापंक्तिसमाकृष्टसकलजननयनहृदयहृदयंगमं हेममयोद्दंडदंडपाणिभिर्मेचकविशंकटकंकटककमनीयनिभृतकायैः पीतपट्टपट्टिकाकल्पितमेखला वेष्टितावलग्नैः पृथुलपाटलहाटकांचलोष्णीषैरष्टभिर्भटैः परिवृतं सिंहासनमारुरोह |
अधिरुह्य च श्रोत्रियकरावर्जितशातकुंभकुंभपूततीर्थोदकैरभिषिक्तो मंगलवेषाभिः कन्यकाभिश्च प्रोक्षितश्विरत्नरत्नदीप्रकोटी र परिष्कृतोत्तमांगः सामंत नरपतिमकुटकोटिपद्मरागराजिनीराजितचरणनखराजिः परिगृहीतमहीभृदुपग्राह्यः सुधर्माधर्मासनाधिरूढो बिडौजा इवामितौजा रराज स राजा ।
81
इति श्रीयदुशैलवासि, बालधन्विकुलकलशजलनिधिकलानिधि, विद्याविशारद, संस्कृतसेवासक्त, कविकुलतिलक, राज्यप्रशस्ति, राष्ट्रपतिप्रशस्तिपरिष्कृत, श्रीमहीशूर नाल्वडिकृष्णभूपसुवर्णपदक - साहित्य परिषद्रजतपदकसमलङ्कृत - जग्गुवकुलभूषणमहाकविविरचितायां, जयन्तिकायां द्वितीयलहरी सम्पूर्णा ।।
J-11