SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ viil एकैकस्मिन् श्लेषादिविशिष्टविषय एव निपुणाः केचन कवयः । परन्तु आः ! इत्याश्चर्ये ख्यापयति । सर्वत्र - श्लेषयमकानुप्रासादिसर्वविधशब्दालङ्कारेषूपमाद्यर्थालङ्कारेषु अनंतपदगुम्फगुम्फनान्तर्निलीनध्वनिसमावर्जितसहृदयहृदयेषु ध्वनिकाव्येषु च चातुर्ये नैपुण्यश्वास्यैवेति वर्णयति । " कण्टकादिभिर्दुर्गमासु महाटवीषु चरणे चातुर्यमावश्यकं किल ! तत्रापि गभीरतरविन्ध्याटवीसभ्वारे चातुर्यमत्यावश्यकमेव । तत्र च स्वेच्छया सश्चरन्ति मतङ्गजाः । तेषां कुम्भस्थलभेदनचतुरः पश्चाननः चातुर्येणैव सञ्चरति । कविमतङ्गजानामपि कविताटवीसभ्वारे चातुर्यमस्त्येव। तथापि गभीरधीरकविताख्यविन्ध्याटवी सभ्वारे चातुर्यातिशयोऽस्यैव । तत्रापि च स्वेच्छया सभ्वरतां मत्तमतङ्गजानां शिरः पाटनपटुः पश्चाननोऽयमेक एव बाण: " इति । " अनेन सकलविधकवितामार्गेऽप्ययमेक एव सर्वानप्यतिशेते" इति । " बाणस्तु — कविकुम्भिकुम्भभिदुरः पञ्चाननो बाणः पञ्चमुखश्शर : " इत्यपि भावः । । किं बहुना ! उदासीनो हि नैयायिकशिरोमणिः जयन्तभट्टः स्वीयन्यायमञ्जर्यं चतुर्थाह्निके वेदापौरुषेयत्वहेतोरप्रयोजकत्वं साधयन प्रकरणात् कालिदास भट्टबाणञ्च लाघते । " अमृतेनेव संसिक्ताः चन्दनेनेव चर्चिताः । चन्द्रांशुभिरिवोद्धृष्टाः कालिदासस्य सूक्तयः ।। " इति । " प्रकटरसानुगुणविकटाक्षररचनाचमत्कारितसकलकविकुलाः भट्टबाणस्य " इति च । सकलकविकुलान्यप्यस्य रसानुगुणशैली चमत्कारविद्धानि । इति भावः । वाचः । एवमुत्कलिकाचूर्णिकादिगद्यभेदस्सर्वोऽपि तत्रतत्र प्रयुक्तो भट्टबाणेन । " कादम्बरी - हर्षचरितम् " इति गद्यप्रबन्धद्वयमपि काव्यसिंहासनासीनस्य भट्टबाणस्योभयतः संवीज्यमानं चामरद्वयमिव कविचक्रवर्तित्वमस्य ख्यापयति ।
SR No.010023
Book TitleJayantika
Original Sutra AuthorN/A
AuthorBakulbhushan Mahakavi
PublisherHuman Resource Development Government of India
Publication Year1990
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy