________________
अस्य च कवेर्वकुलभूषणस्य आदौ स्वभ्रात्रा सह निबद्धा स्पर्धा भ्रातर्यकरिता भट्टनारायणे पल्लविता विशाखदत्ते शाखायुता भासे कुसुमिता कालिदासे शलाटुतामाप्ता भट्टबाणे फलिता बभूव ।
बाणानुच्छिष्टतां स्वप्रबन्धस्य ख्यापयतानेन कविना कादम्बरीप्रतिस्पर्धितया जयन्तिका हर्षचरितप्रतिद्वन्द्वितया यदुवंशचरितं च गद्यप्रबन्धद्वयं निरमायि। तत्तद्रसानुगुणसन्दर्भेपूत्कलिकाचूर्णिकादिगद्यवैविध्यं सन्दृब्धम् । हिमाचल, शिवपार्वती-नगरादिवर्णनेष्वस्पृष्टं बाणेन वर्णितम् ।
कविकाव्यविमर्शकास्सहृदयाः यथायथं कविद्वयस्य चातुर्य नैपुण्यं प्रन्थानां परस्परसंवादञ्च स्वयमेव विमृशन्तु । किञ्च कविद्वयं गद्यद्वयञ्च धनुर्धरौ रामलक्ष्मणाविव निजभुजद्वयशिखरे निवेश्य नन्दत्वित्याशास्महे ।
इति
प्रमोद संवत्सर पुष्यशुद्धद्वादशी
स्थिरवासरः 29-12-1990
सदयसहृदय हृदयदयापात्रं श्री बालघन्वि जग्गु सुदर्शनाचार्यः
साहित्यवेदान्तविद्वान् विश्रान्त विशिष्टाद्वैतवेदान्तप्राध्यापक:
राज्यप्रशस्ति विजेता