________________
जयन्तिका
संतापः । तदलं भाषितेन । निवेदयाम्यहं भवदुदंतमितो महांतमिति वक्तुमारभत । महाभाग ! मंदभागधेयाहं निवेदयामि । शृणु तावत् ।
तदनु स दीर्घसत्रस्तु सौगंधिनीयं यदि नयनपथात्तिरोहिताभविष्यत् ; वात्सल्य तिरेकेण तदा स्वयमेव ज्ञानिनामग्रणीरपि चकित - मतिः प्राकृतजन इव संतप्यमानहृदयः परित्यक्तात्मकर्मा च तदन्वेषणाय प्रत्युटजं पर्यटन्पाथसस्समुद्धृतो मत्स्य इव तरलतरलः कापि क्रीडापरवशा नामवलोक्य निर्मर्यादप्रमोदपरवशः एहि वत्से ! क्व गतासि ? मा तावदेवमेकाकिनी गच्छेत्यादाय शिरस्याघ्राय निजोटजमानीय स्वादुतरफलप्रदानेन स्वयं सौहित्यमेत्य नित्यकर्मणि व्यग्रेोऽवर्तिष्यत । एवमति - क्रांतेषु कतिपयेषु हायनेषु क्रमशः कामं लज्जां च मनसि, प्रह्वत्वं शिरसि नीलिमानं कुटिलगतिं च दृशि, शोणिमानमधरपल्लवे कपोलतले च, काठिन्यमौन्नत्यं चोरसि, तनिमानमवलझे, वैपुल्यं नितंबबिंबे, मार्दवमूरुकांडे, लावण्यं शरीरे, रामणीयकं प्रत्यवयवञ्चोपजनयता इतरजनहृदयेषु दिदृक्षामुत्पादयता सखीमेनामन्यामिव कुर्वता, भूतेनेव तारुण्येन समाक्रांतेयमभवत् ।
100
I
कंदर्पस्तु तिलकोपांतस्पंदमानभ्रमरकां चञ्चलचारुभ्रूलतां अधरारुणपल्लवामवतंसितचूतकलिकां कोमलबाहुविटपां पुष्पवतीमेनां निजसुहृद्वसंतलक्ष्मीसंभृताटवीशंकया प्रविवेश हृदयम् । किं बहुना ! प्रथममेव कांचनकुसुममंजर्या इव रमणीयतरं स्पृहणीयं चास्या रूपम् । तत्रापि तस्यां सौरभश्रीरिव तारुण्यलक्ष्मीरपि प्रादुर्बभूवास्याम् । हंत ! तथा तथा समुदजृंभत दीर्घसत्रस्य स्वांते चिंतासंततिः ; यथा यथा च गात्रे यौवनमस्याः । स तु कुलपतिः नितांतचिताकलुषितस्वांतः क्षणमिव ध्याननिमीलितलोचनः पार्श्ववर्तिनस्तापसानेवमकथयत् । प्राप्ततारुण्येयं वत्सा सौगंधिनी । तदिह स्थितिरस्या न संप्रतिपन्ना । तदिदानीमभिजाताय राजन्यायानन्यसाधारणयशसे निखिलभूमंडलजेत्रे विश्वविश्वंभराधीशनेत्रे