________________
प्रथमलहरी कुत्रचिदुशीरनिकरपरिमलीकृतशीतलसलिलतुन्दिलविमलस्फटिकभाजनं कुत्रचिदुष्णोदकमरितरुचिरकनककलशकमनीयं कुत्रचिन्निपिष्टामलामलकफलपिण्डमण्डितं कुत्रचित्परिमलहृदयङ्गमस्नानचूर्णविशेषपरिकलितपात्रं कुत्रचिन्नात्युन्नतशशांककान्तशिलापीठं कुत्रचिद्दन्तधवलममृणशङ्खलम्बितधौतकोशेयं कुत्रचिजलपात्रहस्तप्रशस्तवनितानिवहस्पृहणीयं मजनगृहमविशत्।
प्रविश्य च तत्रेन्दुकान्तशिलापीठमधिरुह्य स्नापितो वनिताभिस्स्वयं च करिकलभ इव स्फटिकद्रोणिकासलिले क्षणमिव क्रीडन्धौतवस्त्रपरिमृष्टमूर्तिः सुरापगाफेनपिण्डधवलकौशेयपरिधानः सूक्ष्मारुणातिमसृणकौशेयकोद्गमनीयश्वोपरिनिपतितबालातपारुणितकैलास इवाष्टमीशशांकानुकारिणि ललाटफलंके विरचितकुंकुमस्थासकोऽलिकतलदेदीप्यमानलोचनो हर इव मज्जनगृहान्निर्गत्य क्वचिन्निक्षिप्तकनकभाजनविनिहितसुगन्धबन्धुरविविधवर्णकरम्बितप्रसूनमालं वचिच्छातकुम्भस्तम्भबिलसन्निस्तरलदीपपल्लवं क्वचिद्धवलधूपधूमलतावितानितधूपवर्तिसम्भारं क्वचित्पीतनैलाचूर्णकृतघ्राणतर्पणार्णःपूर्णसुवर्णकुम्भं क्वचिदानायपारगभूसुरवरवर्ग देवमन्दिरं प्राविशत् ।
___ तत्र तुहिनविशदस्पृहणीयतिरस्करिणीकृतप्रतीहारपिधाने विशदकौशेयोलोचमध्यलम्बितस्थूलमुक्ताफलकलापे प्रत्ननवरत्नमालालङ्कृतगाङ्गेयगोपानसीपर्यन्ते कुशेशयकोरकाकारकनककलशपंक्तिपरिष्कृतशिखरदेशे चतुकोणयोजिततपनीयपताके चतुभिर्मसृणमरकतस्तम्भैरुपशोभिते रत्नकल्पितनेत्रैः विवृतकरालवदनकुहरैश्चतुर्भिः कनककसरिभिरुह्यमाने मण्टपे विराजमानं सुदर्शनपाञ्चजन्यकौमोदकीनन्दकादिदिव्यायुधमण्डलपरिमण्डितचतुर्भुजदण्डं मकुटमकरकुण्डलप्रैवेयककेयूरहारनूपुरादिदिव्याभरणालंकृतं मृगमदतिलकसुन्दरमुखारविन्दं श्रीभूनीलासमेतं परमपुरुषं नारायणं समभ्यर्च्य परिपठ्यमानस्वरसुभगानायकण्ठान्धृतधवलोद्गमनीयकमनीयकायानूर्ध्वपुण्ड्रभासुरान्भूसुरान् प्रणम्य च,