________________
जयन्तिका
पुरोभागं चिरनिहततया कैश्चित्प्रसारितचरणैः निश्चलं शयानैरचिर निहततया कैश्चित्परिस्फुरद्भिरुद्भूयमानचरणकांडैश्शोणितधाराबीभत्सैः लुलायोरभ्रच्छागानां कलेबरैः निकृत्ताने ताम्रचूडतनूरुहपटलैश्वासह्यदर्शनीयप्रांकणं बलादाकृष्यानीयमानैर्मुक्तदीनकंठारवैरश्रुधारा कल्माषितकपोलतलैः पदे पदे समुत्सृजत्पुरीषैः पटहध्वानवेपमानगात्रैर्वध्यपशुभिर्विच्छुरितं त्वरिततरताड्यमान पृथुलभेरी भांकार भयंकरं करधृतरुधिरारुणितनिशितधाराकरालकरवालेनाकूर्परं समुत्सारितकञ्चरपटच्चरविरचितकवचाभ्यां निहतानेकप्राणिगणतया शोणितशोणपाणितलाभ्यां भुजाभ्यां भयानकेन धृतमेचकचेलचण्डातकेन शशशोणितसच्छायवस्त्राबद्धोष्णीषेण निकृन्तनाय पशूनां समानयनमेवानुपालयता तत इतः पर्यटता च मातंगनाम्ना मातंगेन भयंकराकारेणांतक किंकरेणेवाविरहितपुरोभागं वर्षादिवसगगनांकणमिव कालिकाक्रांतं राजभवनमिव मातंगाधिष्ठितद्वारदेशं काननसरोवरमिव खड्गपीतकीलाल शत्रुत्रस्तधरित्रीशमिव दुर्गेकशरणं वर्षर्तुसरित्पात्रमिव कबंधबहुलं नलमिव काकोलकालितं शंकरमिव करोटिमालालंकृतं दुर्गागारमनोनयत् ।
तदनु भटो दूरादेव दुर्गायै प्रणिपात्य तं बालकं स्वयमपि कृतप्रणामः बालकेन समं दुर्गाया गर्भागारद्वारमुपससर्प । स तु बालको ललाटफलकोज्वलतृतीयनेत्रानलज्वालाशंकामुपजनयता सिंदूरतिलकेन पीता - जोणतः पूर्णरुधिरोद्गारपीडासहिष्णुतयेव कृतभ्रुकुटिं तत एव वदनकुहरान्निर्गलंत्या रुधिरधारयेव सिंदूरारुणितया बहिः निस्सृतया जिह्वया च भीकरवदनां रजतकवचितनिशितदंष्ट्रा स्थगितसृक्कभागां दुर्वर्णनिर्मितानल्पकरोटिकल्पितवक्षस्स्थलाकल्पां तां दुर्गां विलोक्य विवर्णवदनो यमसदनमध्यवर्तिनमात्मानं मन्वानश्चकित चकितः नीरसरसनः स्वयमात्मन्येव निलोन इव गतचैतन्य इवांधतमः प्रविष्ट इव निश्श्रेष्टो नयनसलिलावेदितनिजप्राणभयो मूक इव तस्थौ ।
अथ स भटस्स्वामिन्प्रभोराज्ञा । सद्य एव वध्योऽयं दुर्गागार -
176