________________
पञ्चमलहरी
द्वारीति । तत्प्रथमं करोतु भवानस्य शिरस्युदकप्रोक्षणमित्यावेदयद्देवलाय । निशम्य स देवलकोऽपि हन्तापिनाम सत्यम् १ किमर्थमेवमभिहितं नरपतिना ? किमपराद्धमनेन ? कुतो वा नृशंसता नरपतेरीदृशी ? एतच्छ्रवणमात्रेण विलोनमिव मे हृदयं दूयतेतराम् । न किमु दया महोशस्य १ हन्त ! कथं वा निपातयिष्यति कृपारहितः कृपाणधारां कंधरायां सुन्दरस्यास्य स मातंगः ? भ्रामितोत्तमांगोऽस्मीति स देवलकः प्रथमं तच्छिसि नयनाभ्यामुदकं ततश्च पाणिना न्यपातयत् । देवलकवचश्श्रवणसमनंतरमेव वज्राभिहत इव भयविह्वलितांतरंगः परिस्फुटितहृदयः इवेतिकर्तव्यतामूढः शिरसि निपतितमिव गगनं मन्वानः भूविवरं प्रविष्टमिवात्मानं विजानन् किमपराद्धं मया ? नापहृतं परद्रव्यम् । न हिंसिताः प्राणिनः । नोक्तान्यनृतानि । नापि चिंतिता मनसापि परपोडा । न कृतः कापुरुषसहवासः । न खलु निंदितास्साधुजनाः । न वञ्चितो लोकः । नाचरितं क्रूरकर्म । न विनितमवदातं कर्म । नापि त्यक्तानि कर्तव्यानि । पालिता एव गावः । दत्तं च दुग्धमर्थिभ्यः । तुष्टा एव वत्साः जननी - पयःपानेन । समूढा च पित्रो: आज्ञा शिरसा । अनुवर्तिता ग्राम्यजनाः । न जाने नरपतिदण्डस्येदृशस्य केन वान्येन कारणेन मंदभाग्योऽहं भाजनमभवमिति बहुधा चिंतयतोऽपि मे न किमपि स्फुरति । हन्त ! स्मृतमिदानीम् । सत्यं कृतमहापराधोऽहम् । दंडय एवास्मि । यतोऽहं गुहायां जननोमेकाकिनीं पतिविरहदुःखितामनाथां विहाय बालभावेन हरिणजिघृक्षया कृतघ्न इव क्वापि गतः । तत एव विदितोदतः नरपतिरकरोदोदृशदंडभाजनं मामिति रुदन्नंवेति दोनरावमाक्रन्दन्वेपमानस्तस्थौ । स भटस्तु दयादलितहृदयः दीनदीनमेनं समवलोक्य स्वयमपि दीनदीनः सगद्गदं वत्स ! मंदमायाहि । बलवती खलु राजाज्ञा । को वा तदन्यधा कर्तुं शक्नोति । मा रोदीर्मारणसमयस्सन्निहितः । तदायाहीति तमादाय वध्यशिलोपकंठ मानिनाय ।
J-23
177