________________
178
जपन्तिका
नीत्वा च स भटस्ततइतः पर्यटन्तं मातंगमब्रवीत् । तात ! निकृत्य चास्योत्तमांगं चंडिकेयं कर्तव्या सुहितेति राज्ञा तावदाज्ञा दत्तेति । निशम्य च कठोरं भटेरितं हननवचनं समातंगो हन्त ! कथमयं मया हंतव्यः ? नाहं पारयामि तुमेनम् । कथं हन्मि कुमारमेनम् । किमिदं? एतदवलोकनमात्रेण स्निह्यति ममेदं हृदयम् । आनंदाश्रुधारां पातयितुमस्मिन्नभिलषति । न तु कृपाणधाराम् । नायं दृश्यते वृषलबालक इव । किं तु कस्यापि महाभागस्य महीभुजः कुमारेण भवितव्यम् । यतोऽस्य विलसति प्रतीकेषु राजलक्षणानि । हन्त ! धिग्जीवितम् । यदर्थमीशे लोकगर्हिते कठोरे कर्मणि निरनुक्रोशस्सन्जोऽस्मि । हंत ! ईदृशदारुणकर्मणे मह्यं तावत्कीदृशः कल्पितो भवेद्विधिना निरयः । न जाने तात! मुग्धमुखपुण्डरीक ! कस्त्वम् ? कीगनुष्ठितो भवता राजापराधः ? वत्स ! न ते माता ? न पिता ? किं करोमि ? परावर्तते पाणिहतकोऽयं कृपाणपातनात् । निर्दयं निषूदितानेकपाणिगणस्यापि मे हृदयं दयामिदानीम् । किमर्थमेवमिति न जाने ? कथमिवेदानीं प्रभुनियोगमतिक्रम्य कुमाररक्षणपरो भवेयम् ? वत्स ! मद्धृदयनिर्विशेष! हृदयंगमांगसौष्ठवोऽसि । तात! राजलक्षणलक्षितोऽसि । चक्रवर्तिचिह्नचिह्नितोऽसि । कथं वा राजाक्षिगतोऽसि ? का ते माता ? कस्ते पिता ? क गतौ तौ ? निवेदय दयया तदखिलमपीति पप्रच्छ।
तदा स बालको बाष्पदम्यमानकण्ठः तात! भवतु जनोऽयं यो वा को वा ? किमनेनोदंतेन श्रुतेन ? निर्वतय तावद्देवादेशम् । ध्रुवं हि जातस्य मरणमपि । तन्मा चिंतय मातंग ! न हि ततोऽपि कर्कशमिदं कर्म यत्तेन जीवसेनहतकेन तदेकशरणामनन्यपरायणां परित्यक्तात्मसर्वखां सहधर्मिणीमनाथामिवैकाकिनी विहाय दुर्गमे कानने निरनुक्रोशेन वञ्चनैकतानेन कापि गतम् । तादृशावस्थां जननीं त्यक्तवतोऽपि ममाप्युचितमेवेदं दण्डनफलम् । तदनेनालमनुशोचनेन । निपातय मे कंधरायां