________________
द्वितीयलहरी
प्रविष्टं च सरभसं ततइतस्स्यंदनेन पर्यटन्तं क्षपितानेकविपक्षबलं प्रकीर्यमाणशरनिकरतया सहस्रकिरणमिवोज्ज्वलन्तं तं वृषस्कंधं विलोक्य स चारुवक्त्रोऽयमेय स्यात्स वृषस्कंधहतकः ; यज्जनन्या पदेपदे अभिहितं दुरात्मनो लक्षणं तावदिति मनसि विचित्योच्चैस्तिष्ठ रे ! विस्रब्धधातुक ! त्वं तावदुरसिलेष्वग्रगण्य इति निस्त्रपः पर्यटसि ; निर्मर्याद ! अपि नाम जानासि माम् ? अपि ते श्रवणपथं वा किमहं प्रविष्टः ? शृणु तावद्विमतकेसरिणः पुत्रः चारुवक्त्रनामाहम् । यद्यस्ति धाष्टये धनुरिदमाच्छियतां मत्कराद्यथा पुरास्मत्पितुः करात्करवालं; आयाहि अप्रतिहतमवेहि सायकं मदीयम् । दिष्ट्या दृष्टिगोचरोऽसि । विलसतु रणधरणिरियं क्रव्यगृध्नुगृध्रव्रातनिशिनतरत्रोटिकोटिसमुत्पाटितभवच्छरीरप्रसृमरसिरासरविसरपरिष्कृता । शरविदारितं परान्नपुष्टं भवच्छरीरं भोक्तुमपि फेरवोऽपि परावर्तते ; यतः कृतघ्नस्य शरीरं इति । प्रलोभनशील ! परस्त्रीलुंटाक ! कृतन्नतायास्ते फलमिदानीमुपनतमिति जानीहि शठेति जगर्ज । तदवकर्ण्य कर्णकर्कशं कटुवर्णविशीर्णहृदयस्स वृषस्कंधस्तापसजनसमुचितवेषं परित्यक्तभूषं कटुतरभापं धीरधीरं चरणाभ्यामेव संचरंतं निर्वर्ण्य तं बालं मनसीत्थमर्चितयत् । हंतायमेव किं विमतकेसरिणः तनयः ? जेता च भूपानामेतेषाम् । क पुनर्जातोऽयम् । कुतो वैतादृशो वेषः । कुत्र वास्मच्छ्रवणपथमनारूढ एव प्रवृद्धः । स्यादेवं ; निहते च मया तस्मिन्विमत केसरिणि भीता तदा क्वापि गता सा वरमालिनी । सा तु तदा स्यादापन्नसत्त्वा । सत्यमिदं तत्प्रभवः । ततश्चावगतमदुदंतेन तेन विरचितं स्यान्महत्तरं तपः । अतः एवायं तापसवेषः हंत ! धिगनवधानतां मम । इतो गताया वरमालिन्याः प्रवृत्त्यधिगमाय नैव प्रेषितवान्प्रणिधीन् । तया तु धृतदृढसंकल्पया भवितव्यं मन्निषूदने । पतिमरणेऽप्यदग्धहृदया विदग्धा कुत्र वा निगूढं व्यवसत् । केनापि वंचकेन मत्पक्ष्येणैव साह्यकृता भवितव्यम् । वंचितोऽस्मि विधि - नेति चिंतासंताननिश्चलगात्रे तस्मिन्वृषस्कंधे, स चारुवक्त्रः सस्मितं
53