________________
जयन्तिका
1
रे ! कृतघ्नशिरोमणे ! कुतश्चितयसि ? किं चिंतयसि ? किमनुतपसि ? अपि नामानुतापोऽपि त्वयि ? कृतस्य फलमनुभोक्तव्यमवश्यम् । इतः पलायितुमपि न शक्नोषि ? मद्वशगोऽसि । पश्य तावत्प्रथनप्राप्तप्रथाप्रमत्तप्रत्यर्थिसार्थप्रमथनसमर्थं प्रहरणमिदम् । नाप्ययं प्रलोभनकालः । प्रदर्शय सांपरायकसामर्थ्यम् । सार्थय पृथुलतरं भुजदण्डम् । मित्रकरलब्धजीवनस्समुपचीयमानस्पृहणीयावयवसन्निवेशश्च जीमूत इव मित्रमेवाभिभूतवान्किल ! ममेदानीमाशुगोऽयमाशुग इव जीमूतं दूरमुत्सारयति भवंतमिति व्याहरन्नेव प्राहिणोद्वाणमेकम् । प्रणिहितश्च विपक्षतक्षणविचक्षणो बाणो विवर्धितशोणितो बभूव । तदनंतर मुभावपि भयानकावस्थूललक्षावंगच्छेदकृतादरौ च भयानकानीकिनीनायकौ कोपकषायितकनीनिको गुणाकृष्टमार्गणसन्निधापितकर्णौ गृहीतविनतधन्वानावपि विजृंभमाणानेकफलौ विमुक्तोपचीयमान शिलीमुखध्वानावपि क्रमव्यत्ययपरिहृतशिलीमुखाध्वानौ स्पर्धयोद्धतौ युद्धमतनु तावतनुताम् ।
तदनु स चारुवक्त्रो ज्यानुन्नैर्वाजिभिरेव तस्य वृषस्कंधस्य स्यंदनवाजिनो ज्यामधिशाययामास । सायकयुगलेनाभांक्षीत्सारथिमनोरथमिव वृषस्कंधरथमपि । सहसा सायकाभ्यां सूतं शरासनं च निर्जीवमपातयत् । अथ स वृषस्कंधस्तु खड्गी खङ्गीव विसृष्टसाध्वसस्सनिर्घोषमभिपतन्प्रकटयंश्च सांयुगीनतां परिभ्रामितमंडलाग्रतया तद्विलयावेष्टित इव धूमयोनिसहसा समाससाद चारुवक्त्रसमीपम् । तदा तु चारुवक्त्रो रोष - लोहितवक्त्रो निस्त्रिंशस्य तस्य निस्त्रिंशं शकलीकृत्य निशितमुखेन शिली - मुखेन हस्ते गृहीततत्कंशहस्तो विहस्तं नतमस्तकं निरस्तसमस्तधैर्यमनाहत सर्वशस्त्रं वृषस्कंधं कृतांजलिबंधं बलादपरांगवलितभुजयुगलबंधं विधाय नया सस्मितमित्थमकथयत् । तिष्ठ रे ! परदारपरिग्रहलंपट ! केदानीं निलीना तवानुकामीनताप्रथा ? क्ववा गता ते सांयुगीनता ? किमु भग्ना साप्यसिलतया सममुरसिलतापि ? दुरात्मन्निति बहुधावहेलयन्सेना
54