________________
110
जयन्तिका
सनाथं विलुलितकिंजल्कं आतपपरिक्लांतं कमलमिवोद्वहन्तीमीदृशानर्थपरंपराणां निदानोभूतस्य मनोभवस्य क्रुधा जिघृक्षयेव हृदयतलविनिहितदक्षिणपाणिमुद्गतमनसिजद्रुमांकुरणेव बाणेन सनाथवामपार्थामधोमुखं निपतितेनोपरतेन चारुवक्त्रेणाविरहितदक्षिणपार्था निदाघदिवसश्रियमिव समुत्पादितसंतापां वनलक्ष्मीमिव कुसुमभूषणां शंकरशिरश्शशिकलामिव तनुतरपांडरतनुमुपरतां तां सौगंधिनोमपश्यत् ।
__ दृष्ट्वा च दुःखभरमंधरः परिपतदश्रुसलिलबिंदुसंदोर्दीपिकास्नेहबिंदुसदृक्षैतुरितधवलतरकूर्चकलापः समासाद्य सौगंधिनीसमोपं कुलपतिरसौ हा ! वत्से ! त्रायस्व मां! समुत्तिष्ठ । निर्गतिकोऽस्मि । निरवलंबनोऽस्मि । विकलकरणोऽस्मि । अपहृतहृदयोऽस्मि । किंकर्तव्यतामूढोऽस्मि । निर्घातजसरीकृतकलेबरोऽस्मि । गाढांधकारजठरप्रविष्टोऽस्मि । दूरोकृतबंधुताबृन्दोऽस्मि। मोहग्राहग्रस्तोऽस्मि । किं करोमीति शवोपरि निपत्य निपत्य पक्ष्मलाक्षि ! निरंतरपरिपतदश्रुतिरस्करिणोतिरस्कृतनयनस्याधन्यस्य पापोयसो में दुर्लभमभवत्तव दर्शनमपि । ननु कलभाषिणि ! कुतो वा न किमपि प्रतिवदसि ? विदितोदंतो नृशंसोऽयमुपालभते मां कृतपरपुरुषव्याहारामिति भिया किमु ? नाहमुपालभं नंदिनि ! नंदय मंदभागधेयं मां मंदमधुरगिरा। हंत! वत्स ! किमु मां न जानासि दीर्घसत्रं वित्रस्तं विहस्तं परिदेवनपरम् ? पश्य प्रार्थयते दीर्घसत्रः । किमर्थ क्रोधः ? किमपराद्धं मंदभाग्यन मया ? भवदाज्ञानुयायो भवदमिलषितं पूरयितुं । निवेदय दयया यदभिमतम् । ननु शिरोषकुसुमसुकुमारं शरोरमिह कर्कशशर्करातिनिशिते भूतले शाययितुं किमुचितम् ? अंब ! त्वयि शयानायां कथं जोवेदयम् । समुन्मोल्य नयनकुवलयमवलोकय मामेकवारं दोनम् । हरिणक्षणे! पश्य तावदितः करकिसलयन विलय भवत्या बालतृणैः परिपोषिता हरिणास्तिष्ठन्ति सवाष्पं । नावलोकयसि वत्से ! भवदर्थ रुदंतं सखोजनं ? पश्य हंत ! भवत्या सादरं करकिसलयविरचितां