________________
112
जयन्तिका
टिकाविराजितवैकक्षमालापरिष्कृतवक्षस्थलमरालमरालराजिविराजमान . सानुदेशमिव क्रौंचाचलं सुगंधबंधुरविविधकुसुममालालंकृतवेण्या गुंजन्मंजुगुंजाहारमंजरोरंजितवक्षोजमंडलया मंजोरमंजुलशिंजितसंजितराजहंसतरुणीवाण्या तरुण्या विराजमानं लुब्धकं अपि मार्गणमनोरथपूरणनिपुणं डोलायमानखंजरीटनोडमंजरीमंजुपुंजपिहितया सरण्या पुरोभागे त्वराभरादापतंतं स दोर्पसत्रः किरातराजमपश्यत् ।
दृष्ट्वा च स कुलपतिरुन्मत्त इव तात! कस्त्वं ? नमस्ते विहस्ते मय्यपि शिलीमुखमेकं क्षिप्रं प्राणहरं प्रहिणु। दिष्टया दृष्टोऽसि । कष्टमद्य मे दूरीकुरु दयया शरेण विदार्य वज्रसारकर्कशं हृदयमिति तच्चरणजिघृक्षया क्षिप्रमुत्क्षिप्य बाहुयुगलं रुरोदोचैः। किरातस्तु तापससकाशमासाद्य विलपंतं तं निर्निरोधं परिदेवनपरांस्तत्रत्यांम्तापसगणानवलोक्य समंदस्मितं किमिदमाश्चर्यमर्यमांशुस्तोमप्रकाशमानेष्वाशामंडलेष्वपि अंधकारनिकर इव ज्ञानभास्करभासुरमानसेष्वपि युष्मासु मोहांधकारः ? हंत ! तापापनोदनपटुषु जीमूतेषु परुषतरो भयंकरोऽशनिरिख यदि शांतेषु युष्मास्वपि निर्मर्यादो रोदनध्वनिः, किमु वक्तव्यमस्मादृशेषु मूढात्मकेषु ? तदलं परिदेवनेनेत्यकथयत् । आकर्ण्य च तद्वचनं सर्वेष्वपि तापसेषु "तात ! गतवत्यस्मदानंदग्रन्थौ ईदृशस्य शोकस्याविर्भावः" इति सगद्गदं निगदत्सु स किरातो निधनमनयोरनुचिंत्य परिदेवनमनुचितम् । जगतीह यदा जनिश्चेतनानामनुपतति खलु मरणमपि । किंचेयं सौगंधिनी तु रजोदूषिता चारुवक्त्रध्यानपरवशीकृतमानसा समीपसंचारात्कुपितेन तपश्चरता तापसेन सुजटनाम्ना शप्ता च " यमनुचिंतयन्ती मामेवमपरिशुद्धमकरोः । तेनैव निषूदिता भव" इति । तदनेनेयं निषूदिता श्येनेनेव शारिका तदलमनेन परिदेवनेन । संमृतिविरतानां हरिचरणस्मरणनिरतानां युष्माकमिदमनुचितम् । जगत्यनुभोक्तव्यं खलु कर्मणः फलमवश्यम् । निश्चलचित्तेष्वपि युष्मासु किमिदं मनश्वांचल्यम् ? को वा शक्कोति