________________
चतुर्थलहरी
135
वर्णसमाकुलिताभिर्घनदिवस-लक्ष्मीभिरिवेन्द्रचाप- विविधवर्ण-मंजुलांबराभिः
कुरुसेनाभिरिव पुरस्कृतद्रोणाभिस्सतुलाभिरप्यतुलाभिरुत्सेधविविधधान्यबन्धुरपृथुलभस्त्रिकाभिः कलकलरव बधिरीकृतश्रवणविवराभिर्निषद्याभिः
हृदयंगमं रसवतीभिरपि दूरीकृतधूमगन्धाभिश्श्यामाभिरपि हेमाभाभिस्सकलकलाकलापकोविदाभिः कोकिलालापाभिः कोमलाभिर्मुक्ताभिरिव लावण्यमयीभिस्सौंदर्यन्यक्कृतसुरसुन्दरीभिः सुन्दरीभिरतिसुन्दरं अभ्यंतरस्थितवारतरुणी प्रतिबिंबमंडितमुकुरमंडलाभिमुखविनिहितादर्शपरंपरानीत बाह्यांकणस्थापितदर्पणदृश्यमानतद्रूपैर्विश्रांतिविषयोऽयमागम्यतामवगाह्यतां च निर्वृत्तिपीयूषहद तरंगपरंपरास्खिति पथिकतरुणान्प्रतिकलं कलरवं मुहुरनुलपद्भिर्बाह्यप्रतीहारपंजरकी रैरतिसुभगैः विविधकुसुम कुंकुमपटीरकालागरुधूपकंदलितपरिमलविरचितघ्राणतर्पणैर्गान कलासमाकृष्टसकलसहृदय हृदयैर्वारवनितानिकेतनैरुपशोभमानं कुंजरतुरंगममहोक्षक्रमेलकप्रभृतिभिः प्राणिभिराकृष्यमाणैर्विचित्रस्यन्दनवृन्दैर्निबिडितायताध्वाक्रांतं त्रिविक्रमपदक्रममिव समाक्रांतरोदस्कं सामवेदमिव निखिलनिगमवरं वत्सराजमिव रत्नावलिमनोहरं गंगाजठरमिव विधृतवसुवर्गं स्पृहणीयदर्शनमतिविशालं विदुषामावासस्थानं नानाविधदेवतामंदिरसुन्दरं हेमपुरं प्राविशत् ।
प्रविश्य च विविधद्यगासेचनकविचित्रकलाकलापकमनीयं समुत्मेधं सौधमधिगत्य प्रत्नरत्नप्रचुररुचिरदर्शनीयकुशलकलाविशेषवशीकृत रसिक - मनांस्यनेककक्ष्यांतराण्यतिक्रम्य स तु धराधिपः शोणाधगजनविधीयमानमानातीतनानाविधमधुरकार्यविधानधुरंधर वधूजनबंधुरमवरोधमनधिगतनिरोधो गंधबंधुरसरसिजनीरंधितं सरः कमलिनीग्रहणाय गंधसिंधुर इव प्रविश्य रमणीमणिपरिग्रहणाय प्रत्युप्तविशालमुकुरनिकरपरिष्कृत स्निग्धभित्तिपरिगतं दुग्धाब्धिवीचिविशदकौशेयोल्लोचकल्लोलशिखरफेनायमान
पृथुलमुक्ताफलकलापमालमालंबितचीनांशुकधवलितप्रतीहारं मृदुलपट्टोपधा
नसनाथ-विचित्र-कलधौत- विष्टरपरंपरा-मनोहर-मत्यायतमायतनमात्मकांत्या
·