________________
14
जयन्तिका
ससि संसदि परिशुद्धात्मानमात्मानम् । कथय विकत्थनपर!कस्मादन्यस्माद्वा परावर्तसे दुष्कर्मणः ? धिग्जीवितमीदृशं । न कदापि भवत श्रुतिपथमागतः किमु परयोषाभिलाषिणां चपलमनीषाणां पुरुषाणां पुरुहूतपौलस्त्यप्रभृतीनामुदंत इति सावेगं निगदंत्यां, तत्रांतरे मत्सखीमापतंती मकरिकामवलोक्य स दुरात्मा त्वरया निरगात् । गते च तस्मिन्नुपविश्य पर्यके रुदती निपतदश्रुकणिकाकुलितकपोलफलका दुःखभरजर्झरिताक्षरा ससांत्ववचनमसकृत्पृच्छत्यै तस्यै मकरिकायै प्रचलितमखिलमपि वृत्तं न्यवेदयम् । ___ सा तु मकरिका समाकर्ण्य कर्णकर्कशं कापुरुषस्य तस्य शाठ्यं साध्वसकंपितहृदया रोषकषायितलोचना गत्वा च सरमसं भवत्पित्रे विमतकेसरिणे निवेद्य मदुःखमात्रं सद्यस्तमानयति स्म मदुपकंठम् । स तु तव पिता रुदतीमवलोक्य च मां मत्पाव एव निषण्णो विषण्णहृदयश्चेलांचलेन परिमार्जयन्कपोलतलपतितं बाष्पसलिलं समुत्सारयन्करकमलैविलुलितां चूर्णकुंतलावलिं निवारयन्मधुरया गिरा हृदयगतमपरिमितं संतापं परामृशन्मृदुलतरेण करकमलतलेन मूर्धानं मंदमप्राक्षीत् । सुदति ! कुतो रोदिषि ? इति ।
पृष्टा चाहं वेपमानहृदया बद्धांजलिपुटा प्रभावमवलान्य नाथ ! सविनयमिदमेकमभ्यर्थय। नितरां बिभेमि निवेदयितुं । स्त्रीहृदयविजंभितमिति नोपेक्षणीयं । चंचलप्रकृतिकृतमिति नाप्यनादरणीयं । परस्परमैत्र्यसहनोक्तिरियमिति नैवाविश्वसनीयं । निजसौन्दर्यदर्पप्रकटनपरीवाह इति न दूरीकरणीयं । असंभावितमिदमिति न तिरस्करणीयं । पैशुभ्यप्रकार इति नाप्युदासितव्यं । अश्रद्धेयमिति नैव निराकरणीयमार्यपुत्रेण मद्वचनं । नाहं मिथ्यावादिनी; न च पश्यामि प्रयोजनमसत्यकथनेन । योषितः पातिव्रत्यैकधना हि ! तद्यथाकथंचिदपि कुलांगनयाभिरक्षणीयं पातिव्रत्यं । तदत्यये त्वभिजातामपि तृणाय मन्यते । सत्पुरुषाः गहँते । नाप्याभाषते। तदहमावेदयामि भवदेकशरणा। शमीतरुरिव