________________
20
जयन्तिका
निधि गुहाभ्यंतरेभ्यो बहिनिस्सरतां घूकानां धूंकारघोषैस्तत्रतत्र पर्यटतां वनमशकपटलानां सूक्ष्मतरकलक्कणितैरतिनृशंसानां वनसत्वानां भीकरघोषैश्च मुखरीकृतमटवीतटम् ।
____ अहं पुनः परितो दत्तदृष्टिस्साध्वसेन वेपमानगात्रयष्टिनिराहारतया निरंतरपरिधावनद्विगुणितपरिश्रमतया निरतिशयव्यथाक्वाथ्यमानमानसतया च दीनदीना अविरलमभिपततश्श्रवणयुगलं नयनपथं सशब्दं वनमशकान्वसनांचलेन परिहरंत्युपधानीकृतदक्षिणबाहुतला दरीद्वारशिलातलमधिशिश्य । अहो ! नियत्या निद्राप्यपहता। निर्निद्रवानिर्वाच्यदुःखभरेणनयनकोणद्रोणीनिरर्गलनिर्गलद्वाष्पधारासारपूर्यमाणश्रवणविवरा विधिहतक ! निरनुकोशोऽसि! न हि ते हृदि लेशोऽप्याभावः। यतो निजवैभवापहसितवासवप्रासादे प्रासादे सादरं भुजिघ्याजनपरिकल्पिते तुषारसंततिसोदराविरलजालजटिलतनुतरतिरस्करिणीमध्यवर्तिनि यन्त्रव्यजनजनितमन्दमारुतान्दोलितसितविततशरदभ्रविभ्रमहरमनोहरदुकूलवितानसंतानेकल्पतरुकोमलकिसलयकल्पे तल्पे मधुरगानकुशलकुशीलवकुलविस्तृतप्रशस्तरागपरंपरामाधुरीपरिप्लावितस्वांतं कृतनिद्रामेनां मामेकाकिनीमधुना घोरतरे कांतारे कठिनतले शिलातले शायितवानसि । इति कंचित्कालं विधिमुपालंभमाना वराकि ! वरमालिनि ! न पर्याप्तमिदं तावत् दुःखम् ; क्षत्रावतंसदुहितुः परिगृहीतचक्रवर्तिपाणिपल्लवायास्ते। यतश्च तादृशदयितात्ययक दलितशोकानलसंधुक्षिततापदह्यमानादप्यपरिस्फुटितानाधुनापि तव हृदयादपयांति प्राप्तपुटपाकाः प्राणाः। चिरमनुभव दुरितानुगुणं फलम् । इति कंचित्कालमात्मानं विगहेमाणा नृशंसापशदेन कृतन्नेन तेन निकृत्तं घोरतररुधिरधारासारकल्माषितं दुनिरीक्षविकारप्रमुषितसौन्दर्य दयितवदनं शोकातिरेकात्कंचित्कालं स्मरन्ती निरन्तरप्रसमरतिमिरपटलतया नीलिमसमीकृतगर्तान्तरामुन्नतानेकानोकह निवह निबिडपलाशपंडद्विगुणितनैल्यां नीरंध्रध्वान्तनिरुद्धावकाशतयेव झिल्लिकानिकरतारतारारवकैतवेन विलपंती