________________
पञ्चमलहरी
जीवामि १ हन्त ! सर्वधा प्रतिकूला नियतिः नर्तयति मामेवं धृतप्राणाम् । तत्त्यक्ष्यामि प्राणानिमान् । किमितः परमनेन जीवितेनांब ! प्रवेशितास्म्यंवंतमः । परिभ्रमत्युत्तमांगम् । शुष्यति जिह्वा । कथं वर्ते १ न जानामीति बहुधा विललाप । एवं विलपन्तीं तामवलोक्य नितांतचिंता। संतानतांतस्वांता सा तापसी मनसीत्थमर्चितयत् । हन्त ! किमद्य करोमि ? प्रतिकूले तु दैवे सर्वमपि प्रतीपतया प्रवर्तते । मया तावत्प्रवर्तितः प्रयत्नस्सर्वोऽपि प्रतिभटतयाभिपतति । अनिच्छंत्यपि कथमपीयं राज्ये स्थापिता प्रभ्रष्टपतितनयान्वेषणयुक्तिरप्युपदिष्टा । तदर्थं शक्तिविशेषसाधनीभूता प्रदत्ता मणिमाला | हन्त ! भोस्सर्वमपि भस्मनि हुतमिवाभूदिदानीम् । किमु लगति ममोपदेशोऽस्या हृदि ? भविष्यति सांत्वोक्तिरपि चर्वितचर्वणरूपा । वेदांतार्थप्रतिपादनमपि भवत्यूषरक्षेत्र वृष्टिकल्पम् । आयतिशुभंयुवार्तापि परिहासाय कल्पते । लोकोक्तिरपि नैव मनः परिवर्तयति । क्लेशजातमुपर्युपरि पतमानं शिलामयं मानसम् तनोति । ममापि परावर्तते जिह्वा सांत्वोक्तिमभिधातुमपि । किं कर्तव्यम् ? कथं कथनीयम् ? किं व्यवस्यतीयमिति बहुधा विचित्य च जयंतिकामित्थमकथयत् ।
ननु जयंतिके ! यद्यपि दयनीयासि । भवद्दशामवलोक्य किमपि वक्तुमपि परावर्तते मे जिह्वा । दयिततनयवियोगदंदह्यमानहृदयासि । निर्वेददूरीकृतजीविताशासि । क्लेशपरंपराजिहासितदेहासि । तथापि मनसमाधेहि निधेहि मदीये वचसि । प्रायो जगति तावदेव प्रगल्भंते ; दुर्विदग्धा अपि विदग्धा भवंति । बालिशा अपि कल्पते कार्यनिर्वहणाय । अमान्या अपि मान्यंते मानवैः । दुश्शीला अपि सुशीला विलसंति । अनभिजाता अपि आभिजात्यपदवीमारोहंति । कुरूपा अप्यपहसितमनसिजरूपाः प्रकाशन्ते । यावन्नियतिरनुकूला कलयति निरतिशयकटाक्ष विशेषं नरेषु । ईदृशे क्लेशव्यतिकरे तु नियतिपराङ्मुखतादशायां तद्वयतिरेकिणो भवन्ति मानवाः । तद्विवेकिना कष्टकालेऽपि नैव त्याज्यं धैर्यम् । न
165