________________
जयन्तिका
शिथलीकरणीयं पौरुषम् । न विसर्जनीयो यत्नः । कर्तव्यं कर्म । स्मर्तव्यशुभोदर्कः । हातव्यं दैन्यम् । चिंतनीयः कर्तव्यांशः । समाश्रयणीयं धाष्टर्यम् । दूरीकरणीयं वैक्लब्यम् । चेतयितव्यं चेतः । चेतनमनुसरति हि द्वन्द्वपरंपरा । नत्वचेतनम् । संपदि वापदि वा अतर्कितमेव श्येनपातं अभिपतति । न गणयति गुणान् । न लक्षयति लक्षणानि । न परिशीलयति शीलम् । नेक्षते कुलम् । न पश्यति वयः । नावलोकते रूपम् । किं बहुना चतुराननोऽपि सावधिकाधिकारो हि नियते काले । ततश्च सोऽपि मादृश एव । तत्प्रकृतेः परिणामशीलतां परिशीलयन्मनीषी दुःखे सुखे च समदृष्टिः नैव जहाति कर्तव्यं कर्म । तद्भवत्यपि साधु विमृश्य स्थितिमिदानींतनीं धैर्यमवलंब्य च कर्तव्यकर्मरता भवतु | अद्य ते तु नैव स्त्रीत्वम् । नापि पुंस्त्वम् । उभयविलक्षणं हि रूपम्। कदापि यदि सन्निहितस्तव दयितः कथमिव प्रत्येति भवतीमीदृशवेषां जयंतिकेति ? माणिक्यमालां तामंतरा ते दुर्लभमेव प्राथमिकं स्त्रीरूपमपि । हन्त ! सा तुमाला क्वापि नष्टा । किमद्य कर्तव्यम् ? कथमन्वेष्टव्या ? कुत्र व। निपातिता । सा तु माला तनुतनुतरा वल्मीकोदरे वा महति विवरे व. यदि निपातिता कथमिव तदुपलब्धिः ? निरवधाना संवृत्तासि ? बहुधा चिंतितमपि न मे किमपि प्रतिभाति । तदेवं मनसि कृतम् । पुरुषमुद्योगिनमुपैति लक्ष्मीः । वयमपि कृतप्रयत्ना भवामः । श्वः कल्य एव तुरंगमाधिरूढे आवामन्विष्यावः । तदलमनया चिंतया । याहि वत्से ! भुक्त्वा सुखं स्वपिहि । किं प्रयोजनं केवलेन परिदेवनेन ? प्रयत्नपरे भवावः । नियतिरनुकूलयति । द्रक्ष्यसि शुभोदर्कमिति ।
तदनु सा जयंतिका प्रणिपत्य तापस्यै सबाष्पं भगवति ! भवदनुग्रहविशेषाद्भवत्वेवमेवेत्यभिधाय निर्गत्य च तस्मात्कृताहारा चिंतायत्तस्वांता आनिशांतमनारूढनिद्रा तल्पतलपरिवर्त्यमानगात्री प्रतिपालयति स्मारुणोदयम् । मंदालोंके प्रत्युषसि समुत्थाय तल्पादनभिलषितपरिजनपरिचर्या
166