________________
46
जयन्तिका
समुचितवेषः क्व चेदं चक्रवर्तिलक्षणं व कंदमूलफलाहारः क्व चेयमप्रतिहता शक्तिः क वा बालभावोऽयं क पुनः सकलराजलोकवशीकरणं अहो ! धीरता बत । निस्पृहता हंत ! गांभीर्य बत सौंदर्यमिति परस्परं सविस्मयमनुलपद्भिर्लज्जाभरावनमितोत्तमांगैश्चतुरंगबलपरिगतैर्धरणिपतिभिः अनुगम्यमानो घटितविचित्रोदंडकांडवैजयन्तीं वैजयन्तीमाससाद ।।
आसाद्य चानतिदूरे परिजनविरचितानां प्रस्मरनिजमूर्तिमत्कीर्तिमयानामिवांतर्विधृतविविधरमणीयरत्ननिकरतया महीभृत्कुलाकुलिततया चानेकोर्मिसंकुलं दुग्धाब्धिमिव विडंबयतां पटमंदिराणां मध्ये धवलधाराधरनिकुरुंबपरिगतं रजतगिरिमिव विगजमानमास्वर्गमुन्नमय्य समुदंडध्वजदंडभुजदंडं तरलतरपाटलपटपाणिपल्लवेनाद्भुततरायोधनावलोकनाय गीर्वाणगणमिव समाह्वयन्महेश्वरमिव विभूतिविशदं चित्रभानुमिव प्रस्मरानेकरश्मिजालं वैजयन्तीसौंदर्यदिदृक्षया सपरिवारं सन्निहितमिव श्वेतद्वीप दृष्यमपि महाराजसेव्यमानमत्युन्नतफेनपिंडमयमिव काशकुसुमराशिमयमिव पुंजीभूतकौमुदीमयमिव, सिताभ्रक्षोदमयमिव पालेयपुंजमयमिव सुधाधूलिपटलमयमिव धवलतरमतिविशालं समुत्तुंगशिखरं पटमंदिरं प्राविशत् ।
तदनु समाविशत्सु स्वखपटालयं महीपालेषु सोपरक्षणासु च शिबिरवीधीषु चारुवक्त्रेणाभ्यनुज्ञाता योद्धारो युद्धोद्यता बभूवुः । तदनु प्रथनशंसिभिर्भेरीपटहपणवादिवाद्यध्वानवियदध्वा मुखरितोऽभवत् । श्रुत्वा च तदतिभयानक बधिरीकृतश्रवणविवरं वादिवरसितं सिझनादं च स वृषस्कंधः ससंभ्रममधिरुह्य प्रासादशिखरं परितो दत्तदृष्टिः पूर्वस्यां दिशि नातिदूरे महीपालकरैरिव सदा स्रवदानधारातरलकटकालिभिः किंराजपरिपालितविश्वंभरामंडलैरिवोइंडावग्रहभयंकरैः कुबेरवद्धृतपयकैः गगनांकणवरलाहकनिवहमलिनैः सुन्दरीमस्तकैरिव प्रवेणिपरिष्कृतैः शिबिरदेशैरिव निबद्धदूष्यैः कुलालभवनैरिख मृत्तिकापुस्तपृथुलकुंभैः वर्षादिवसैखि