________________
12
जयन्तिका
तस्यामासीद खिलनरपतिमकुटतटघटितरुचिरनवमणिगणकिरण • निकरानुषंगादि वारुणचरणपल्लवः पाकशासन इवाद्भुतायुधविध्वस्तसमस्तमहीभृत्पक्षविजृंभो मेरुरिव रत्नकटकश्शंकर इव राजमौलिस्सवितेवासुलभदर्शनश्शरत्काल इव राजहंससंसेवितस्तार्क्ष्य इव सत्पथसंचारो भुजगवल्लभ इव विधृतभुवनभारः प्रथमयुगविलास इव धर्मैकवसतिः चित्रपटः इव विविधवर्णोपलालितो दशरथ इव सुमित्राविरहितश्चंद्र इवाह्लादितसकलजनहृदयः दर्शनसंदर्शन विमलहृदयो विमतकेसरी नाम राजा तव पिता वृषस्कंधाभिधेन सुहृदा समम् ।
यस्मिंश्च राज्यलक्ष्मीश्चंचलेति चिरकालानुवर्तमानामपकीर्ति परिहर्तुकामेव स्थिरतामवाप । यस्य च कविरिव पदातिचिंतनकृतसंधिविग्रहस्सरित्पतिवि राजलक्ष्म्युदयहेतुश्शुक्लपक्ष इवाभिवर्धितराजो योगीव मंत्रबलप्रत्यक्षीकृतसकलविषयः पूर्णसुधांशुरिव सकलकलास्पृहणीयो निजधिषणान्यक्कृतधिषणधीवैभवो मरुन्मालो नाम भूसुरवरस्सचिववरः । यश्च वृषस्कंधेन विना प्रमदवनविहारं सलिलक्रीडां मधुरतररसभरितमशनं मृगयामक्षक्रीडां मनोहरहारादिभूषणं स्पृहणीयभाषणं स्नानमेवमन्यानि च निजकार्याणि नाचरति स्म भार्यासंश्लेषणावसरमेकमंतरेण ।
एवं स्थिते कदाचित्परिलिप्ससुगंधितैलैः प्रसाधिनीप्रसाधितैश्व केशपाशैर्विरचितभोगिभोगनिभायतवेणीं तदुपरि विनिहितपरिमलस्पृहणीयषट्चरणगणमुखरितपिंडीकृत प्रसूनमालां चूर्णवासितोर्मिंसधर्मललितालका वलिमनेकवर्णमयूखाभिभूतनयनही रमयकर्णिकालंकृतकर्णपाशां मृग - मदतिलकालंकृतविशालललाटफलकां कंदर्पकोदण्डडंबरहरोन्नतभ्रुवमंजनांचितखंजनेत्रीं दर्पकदर्पणायमानकोमलतरकपोलफलका चामीकरचंपककोरककमनीयनासिकां तांबूलचर्वणारुणिमबंधूकगर्वसर्वकष लावण्यमधुराधरां मलयजरसपरिमळीकृतकंबुकंधरां नवरत्नमालामंडितपयोधरमंडलां जातरूपापादितहंसमिथुनसनाथपर्यंतकांतदुकूलालंकृतां मेचककौशेयकंचुलिका