________________
पञ्चमलहरी कथं वा कांतारे जननीपरित्यक्तस्य रोदनैकतानस्य शिशोः दुर्गतविप्रप्राप्तिरित्यादि प्रचलितं दुःखबहुलमपदानमेव व्याहरंती किं ब्रवीमि ? यन्मे सुचिरं प्रणष्टस्य भवतो वदनारविंददर्शनमुपनतम् । तत्रापि स्नुषायाः पौत्रस्य च समायोग इति, तत्तु वाचामगोचरं विस्मयमुपजनयतीति मुहुर्मुहुः पौत्रं शिरस्याघ्राय निजोत्संगमारोप्य च परामृशन्ती समीपमाहूय च स्नुषां निजपार्श्व एवोपवेश्य संलपन्ती परां काष्ठामानंदस्यानुबभूव ।
तदनु वरमालिनीमनुकुर्वतीवामोदभरमंधरेवातिसमीरे घूकमिथुनकेलिकलहरवमुखरिते कांतारांतरे तरुगिरिकुहरेषु तिमिरसारूप्यमधिगतेषु कांतारेऽपि वरमालिनीशरीर इव संकुचिते तिमिरनिकरैरिव मशकनिव हैरपि समाक्रांते वनप्रांते पर्यटनपरखद्योतत्रातेन नक्षत्र इव शाद्वलतले समुच्चरति च घण्टादशकशंसिनि तारतारे शंखरवे अदूरवर्तिन्यां वैजयन्त्यां नीरवायां कंदमूलफलैः निर्वर्तितशरीरस्थितिः स्वयमेक एव दारुमयं पर्यंकमधिशिश्य । वरमालिन्यपि शाययित्वा निजदक्षिणपार्श्वे जयंतिकां वामपार्श्वे च पौत्र संकुचितक्रोडतलप्रवेशितकीकसप्रायजानुयुगला धवलकंबलावगुण्ठितकृशतरशरीरा मृदुलतरे शयनीये शयाना परामृशन्ती पाणिना पार्श्वशायितं पौत्र हन्त ! वत्स ! जननीनिदेशेन पित्रा साक्षान्निकृत्तकंधरोऽपि दिष्टया समधिगतप्राणोऽसि । तात ! कथं सोढा तदा हिंसा भवता ? अंब ! वत्से ! भवत्यापि कथं क्लेशपरंपरानुभूता ? भवद्धैर्यमनुचित्य विस्मया - लिष्टहृदयास्मि । अहो ! ते धीरता । हन्त ! उद्योगशीलता । बत ! निर्भयता । हन्त ! कष्टसहिष्णुता । बत! पतिपरायणतेति व्याजहार । अंब ! सत्यमभिहितं भवत्या । विस्मया वहैव दैवचेष्टा । शृणोतु भवती निखिलमपि। निश्शेषं निवेदयामि । एवं वनवासः । एवमार्यपुत्रवियोगः । एवमामध्याह्नं कठोरे कांतारे परिभ्रमणम् । एवं तापसीसंयोगः । एवं पुत्रजननम् । एवं पुत्रवियोगः । एवं राज्यप्राप्तिः । एवं पतिपुत्रयोरन्वेषणम् । एवं प्रणष्टाया माणिक्यमालाया लाभः । एवमार्यपुत्रपुत्रयोर्दर्शनमिति
213