________________
जयन्तिका
सत्यचिरगतसलिलपूरा तरंगितमृदुलतरविशदसिकता निम्नगेव । अपिनामेयमवगच्छति मामात्मतनयं ? कथमस्यास्समुत्पादयामि मयि तनयत्व - प्रत्ययम् ? केन वाभिज्ञानेन निरूपयामि मां चारुवक्त्रम् ? अपिनामोदेति मयि वात्सल्यमस्याः ? भवतु तावत्कथमप्युत्पादयामि तनयत्वप्रत्ययं प्रयलेनेति विचित्य सविनयमुपसमर्प ।
212
उपसृत्य च मातश्चारुवक्त्रः प्रणमतीति प्राथमिकमात्मनो नामधेयमेव व्याहरन्सहधर्मिण्या सह प्रणम्य सविनयं तस्थौ । सा तु वरमालिनी भ्रुकुटित तलवलभीकृतवेपमानदक्षिणपाणिस्समुन्नमितसिरा बहुलशिरोधिः कोर कितसलिलकलुषितलोचना डोलायमानचुबुकतला गलिताखिलरदनतया समुद्गललालाजलमसकृद्भिलन्ती कंपमानाधरोष्ठपुटा विलोक्य जीवसेनं दुर्बलतया मुहुर्मुहुहुँकारगर्भ तात ! कस्त्वम् ? उपकण्ठमायाहि । तिमिरतिरोहितनयनतया न सम्यग्गोचरीभवसि । समुपविश समीपे । पश्यामि तावद्भवन्तम् । इति म्लिष्टप्रायमब्रवीत् । ततश्च जीवसेनस्समुपवेश्यात्मजमंकतले जननीसकाश एवोपाविशत् । वरमालिनी तस्य प्रभामिव पार्श्व एव स्थितां दक्षिणकरकमलतलशायित कपोलफलकां निजोदरदेशतिर्यक्कृत वामप्रकोष्ठां जयंतिकां सुचिरं निर्वर्ण्य तात ! केयं मूर्तिमती राज्यलक्ष्मीरिव विलसति भवतः पार्श्वे ललनामणिः ? कोऽयं बालकः ? केसरिकिशोर इव भूभृत्सानुदेशं तवोत्संगमलंकरोति ? न शृणोति बाधिर्येण श्रवणयुगलं दरमपि । तदुच्चैरुच्यतामेतदखिलमपीत्यब्रवीत् ।
तदा नरपतिरखिलमपि मृगयागमनमारभ्य निजोदंतमुच्चैर्व्यजिज्ञपत् । श्रुत्वा चाद्भुततरमुदन्तं वरमालिनी हर्षप्रकर्षद्विगुणिताश्रुसलिला कीकसबहुलेन दक्षिणपाणिना परामृशन्ती जीवसेनोत्तमांगं तात ! दिष्ट्या मन्नयनपथमागतोऽसि । विचित्रा खलु दैवी गतिः । क्व नागकन्या ? क च शापोपहतस्स सुगंधनः ? कथमिव च तयोस्संगमनम् ? कथं वा तस्याः निजापत्यपरित्यागे समुत्पन्ना मतिः ? आयसं खलु तस्या हृदयम् !