________________
84
जयान्तका
भटाः समुपक्रांतमृगयाव्यापाराः पश्यत कण्ठीरवकण्ठारावकुंठितोपकण्ठमिदम् । निशितशललीशलाकासमाकुलितमिदम् । पर्यटक्करटिपटलामर्दितलतागुल्ममिदम् । ललायकर्दमितकासारमिदम् । वातायरोमंथफेनपिंडपंडमंडलमिदम् । शिखावलचन्द्रकचयनिचितमिदम् । सूकरमुखाचिरविदारितमृत्तिकामयतलविकीर्णकन्दबन्धुरमिदम् । धावितशशनिकरचरणांकितमिदम् । शार्दूलाचिरनिहतकुरंगरुधिरारुणितमिदं स्थानमिति परस्परं दर्शयन्तः हन्त ! समुलंधितशरलक्ष्योऽयं कृष्णसारः । शिलीमुखहतिवेदनासहिष्णुतया सचीत्कारं क्षितितलनिखाततीक्ष्णतरदंष्ट्रोऽयं वराहः, वसुन्धरोद्धरणाय कृतप्रयत्नमादिवराहं विडम्बयति । सारमेयनिरुद्धस्सालावृकोऽयं ससाध्वसं निजोरुयुगलांतःप्रवेशितवालः कृतमुखविकृतिः प्रलीयते कुंजोदरे । शरानुविदश्शार्दूलोऽयं रोषातिरेकादभिपतति । तदपसर। अमर्षदुर्घर्षहर्यक्षलंघितोऽयं मृगयुः। तरिक्षप्रं विमोचय तं करवालनिपातनेन । पश्य, वक्त्रगृहीतपृथुलशशस्समायाति कौलेयकोऽयं भवदुपकण्ठम् । अहो ! नीलकंठकंठमपातयत्प्रयुक्तोऽयं क्षुरप्रः । लुलायकठिनकंठपीठनिखातं करवालमाच्छिद्य देहि तावत् । निहतशल्येन मया युधिष्ठिरचरितमाचरितम् । करखङ्गेन वनखड्गः पातितः । मा प्रहिणु बाणं संमर्दसंत्रासाचिरप्रसूतपोतायामनुकंपनीयायां हरिण्यां। तज्जीवग्राहं गृहाण तं पोतम् । वात्सल्यातिरेकादनुवर्तते सा हरिणी। हन्मि चर्मणि दीपिनमेतम्। किन्नु खल्विदं पश्य तावदिवाप्यर्धचन्द्रोऽयमृक्षगणमनुव्रजति । प्रद्युमः इव सायकेन पातयाम्यहं शंबरमित्यहमहमिकया व्याहरंतः प्रशमितवनसत्वसंचाराः सोत्साहमटवीमभितः पर्यटन् । चारुवक्त्रस्तु तुरगाधिरूढः सकौतुकं तत्रतत्रावलोकयंश्चललक्ष्यवेधनपाटवं प्रकटयन्साध्वसदूरगतविवलितकंधरावलोकनैकतानमृगाधिपं कंदरोदरदरनीरवनिलीनभूदारं संत्रस्तकुंजपुंजोदरगूहमानदूरपरिधावनखेदपरिस्फुरदुदरपार्श्वश्रांतशार्दू परिभ्रष्टयूधगवेषणव्यग्रकांदिशीकदीनकुरंगं निजामकानवलोकनकंदलिततार