________________
चतुर्थलहरी
119 बिंबमवलोक्य परोऽयं मत्सदृश इति मात्सर्यादिव सहुंकारमूष्ममालिन्येन तिरस्कृत्य च करकमलताडनेन शैशव एव प्रकाशयन्निव क्षात्रवृत्ति मृगमदतिलकशंकामुपजनयंत्या लंबमानया कोमलनीलरुचिरुचिरचिकुरलेखया दर्शनीयललाटः सहासं प्रधाव्य च मुकुरागाराभ्यंतरं प्रतिमुकुरं प्रतिबिंबितबिंबतया भगवतो विश्वरूपं विडंबयन्निव परिगृहीतानेकशरीरस्वात्मजिघृक्षया ससंभ्रममनुधावतो धात्रीजनानायासयंस्तंभयंश्च प्रार्थितस्तैस्सहासं तत्करांगुलिमवलंब्य व्यत्ययविनिहितचरणपल्लवो मन्दमन्दमस्पंदत।
एवं क्रमेण स्वयमेव प्रचलन्बालकस्सवल्गितं समंदहासं समधुरालापं सशिरश्चालनं च आत्मानमादातुकामस्य परिजनस्य सकाशमासाद्य प्रतार्य च तं जनं सरभसमितरकरमुत्प्लवमानो विघटयन्परिजनानां तत्तत्काईंकतानतां क्रीडामयमिवानंदमयमिवौत्सुक्यमयमिवोत्साहमयमिव प्रासादमापादयामास । कदाचिदंसतललंबमानकबरीको लंबितडोलायमानचूडामणिरमणीयललाटशिखरो मृदुलतरकुंतलावलिः मृगमदतिलकविलसदलिकफलको ममृणांजनकालितलोचनपुंडरीको मुग्धकस्तूरिकास्थासकमंजुलकोमलकपोलफलको नीलतरमृदुलमसृणांशुकविशेषवारवाणस्थगितसुकुमारशरीरः प्रेखोलत्पृथुलमुक्ताफलकलापकलितविशालवक्षस्थलो होरप्रचुरांगदमंडितबाहुदंडोऽतिमांसलमणिबन्धतया वलितरंगशंकामुपजनयद्भिः प्रत्युप्तैरिव तनुतरैः कनकवलयैरलंकृतकरकमलो मांसलतया लावण्यतरंगैरिव मनोहरवलिरेखातरंगैः कमनीयोरुयुगलो मंजीरमंजुलचरणकिसलस्स जीवसेनः प्रविशन्समां मन्दं मन्दमायातश्च केसरिकिशोर इव समायाति नरपतितनयः पश्यपश्येति प्रदेशिन्या परस्परं प्रदर्शयद्भिः दूरस्थितैस्ससंभ्रम समुन्नमितशिरोभिः विततपक्ष्मपुटैस्सभास्तारैरवलोक्यमानः पीयमान इव नेत्रपुटाभ्यां सामंतनरपतिभिराजिघृक्षया पुरः प्रसारितेषु प्रवेष्टेषु सशिरश्वालनं सत्वरमुपसृत्य पितुरंतिकमुत्संगतलमलंचकार ।
एवं क्रमेणातिक्रांते च सकलजनमनोनयनानंदवितरणनिपुणे बाल्ये