________________
222
जयान्तका
कृतस्नानया जयंतिकया सह कृताभ्यवहारः शयनपातितशरोरः पितृगतास्तास्ताः कथाः कुर्वन्ननारूढनिद्र एव निजबाष्पधारामिव शोकदोर्षां तां त्रियामामत्यवाहयत्। ___ अपरेधुरुत्थाय स्रोतस्विनीकृतावगाहनो निर्वर्तितशरीरस्थितिः यावदहं हेमपुरात्प्रत्यागमिष्यामि तावदिहैवास्वेत्यादिश्य हंसध्वजं तेनैव वाजिबातेन परिवृतो जयंतिकावोरसेनाभ्यां सममधिरुह्य शताङ्गं हेमपुरं प्रति प्रतस्थे । प्रस्थितश्च व्रजन् , नन्वरिभीकरायामेकपद एव भग्ना हि पितृदर्शनोत्सुकितस्य मे मनोरथसंततिः। न जाने हेमपुरे च कीदृशो परिस्थितिरिति । तत्रापि भवेद्भवद्विरहदुःखिता हेमवत्यपि परित्यक्तप्राणा। तव पिता सत्यकीर्तिरपि कोर्तिशेषो भवेदेव । धिगेनं माम् । यदहमेव सर्वस्याप्यनर्थस्य निदानमिति बाष्पाविलेक्षणां जयंतिकां प्रति प्रकथयन्नपरिमितचिंतासंतानकलुषितस्वांतो गच्छन्नेव तं दिवसमतिवाह्य सायंसमय हेमपुरं प्राविशत् । प्रविश्य च प्रासादद्वारमासाद्यापिकुशलो सत्यकीर्तिरपिकुशलिनी हेमवतीति द्वारपालमपृच्छत् । पृष्टश्च द्वारपालः कुशलिनावेव । के यूयम् ? कुत्रत्याः ? किमु संस्तुता राज्ञः १ इत्यपृच्छत् ।
___ पृष्टस्स जीवसेनः तात ! निवेदय तावद्राज्ञे जामाता ते दुहित्रा जयंतिकया सह भवद्दिदृक्षया द्वारि तिष्ठतीति प्राहिणोदभ्यन्तरम् । अंतः प्रविष्टस्स तु भारपालः तस्मै राज्ञे सविनयं न्यवेदयत् । देव ! दुहित्रा जयंतिकया सह जामाता देवदिदृक्षया द्वारि तिष्ठति । इति श्रुत्वा हर्षुल: वृद्धभावेन गन्तुमशक्तोऽपि मंदमाद्वारमागत्य दिष्टया पश्याम्यपि कुशलिनः ? इति व्याहरन्नभ्यन्तरमानाय्य प्रणमतस्समुत्थाप्यासनं स्वयमेव ददौ । इयता कालेन विदितोदन्ता हेमवत्यपि सादरं जयंतिकाकरमवलंब्य वत्से ! अपि कुशलिनी ? बहुतियात्कालादागतासि। को वायं कुमारः १ धृतप्राणाहं पुनरपि पश्येयं, नवेति चिंतयन्ती दुःखिताभवमिति बहुधा व्याहरंती प्रमोदभरमनुबभूव । अथ जयंतिकामुखादवगतपौत्रविषया