________________
पश्चमलहरी
221 पृष्टश्च तैः कस्त्वमिति निवेदितस्ववृत्तान्तः प्रविश्य च सौधाभ्यन्तरमनवलोक्य च पितरौ समुद्विमहृदयः सन्निहितं मगधाधिपतनयं निजमातुलेयं हंसध्वजमपृच्छत् । पृष्टस्स हंसध्वजः समुपविष्टमासने साक्षादृष्टा जीमूतनामा जरत्तरोऽयं कंचुको निवेदयति भवपितृगतमखिलमप्युदन्तं देवायति न्यवेदयत् । तदनु जीमूतस्सवाष्पं वक्तुमारभत । इतः प्रयाते च देवे निशाचरनिशारणाय अशरण्याविव पितरौ देवस्य प्रत्यागमनमेवानुपालयन्तौ मासपर्यन्तं देवे चाप्रतिनिवृत्ते समुद्विग्नमानसौ संप्रेष्य चान्वेषणाय परिजनाननवरतमपि तस्य चण्डदंष्ट्रस्य चण्डतामेकाकिनो देवस्य तदभिगमनं च स्मारस्मारं साध्वसध्वस्तचित्तौ कथंकथमपि शोकदोर्घदीर्घ कालमत्यवाहयताम् । प्रस्थितास्तु देवस्य मार्गणायानुचराः प्रतिनिवृत्ताश्च सविनयं देव ! सर्वत्र कांतारे मृगितोऽपि नैवोपलब्धः कुमारः। नाप्यवगता तस्य स्थितिरपि । पुलिंदैरपि नाभिहितम् । वयमितिकर्तव्यतामूढाः प्रतिनिवृत्ताः इति सनिर्वेदं व्यजिज्ञपन् ।
तत्प्रभृति देवी रत्नचूडा विजृभमाणहृदयपोडा प्रवर्धमानाधिः देवनामैवोच्चरंती परित्यक्ताहारा क्रमेण क्षपितगात्री शयनीये पातितशरीरा परिजनमनसि महतीं चिंतामुदपादयत् । एवं क्रमेण क्षीणशरीरदृश्यमानास्थिपञ्जरा व्याहारमप्याहारमिव तत्याज । एवमनिशमुत्तानशया साक्षाद्देवेन वज्रबाहुना मुहुराहारग्रहणायाभ्यर्थितापि नैव चचाल । एवं कतिपयदिनाभ्यन्तरे भुवनं निरालम्बमकरोत् । तदा वज्रबाहुः दुःखभरतप्यमानमानसः शोकातिरेकजसरितहृदयैस्सचिवैस्समाश्वासितः निर्मर्यादनिर्वेदचित्तो मगधेश्वरतनयं हंसध्वजमेनमानाय्य वत्स! जिगमिषुरस्मि तपश्चरणाय हिमवन्तम् । तन्माभूदिदं राज्यमराजकम् । इति भवानाहूतः । यद्यागच्छेत्कदापि स कुमारो जीवसेनः जीवंस्तदा तस्मै समर्पयेत्युक्त्वा तपसे ययौ । निशम्य जीवसेनो निजमातुर्निधननिदानमात्मानं मन्यमानोऽश्रुक्लिनकपोलो विष्टरादुत्थाय कृतस्नानविधिः विषण्णहृदयया