________________
पञ्चमलहरी
223
दौहित्रमारोप्य निजांकतलं परिचुम्ब्य च जयंतिकया सह कृताहारा दौहित्रमपि भोजयित्वा दशघण्टानंतरं निद्रासुखमनुबभूव ।
___ अपरेयुः कृतस्नानविधिरामध्याह्नं भाषमाणो निजप्रचलितोदन्तं सत्यकीर्तिना कृतसजग्धिस्तांबूलग्रहणायाससादावरोधम् । तत्र जयंतिकां बलादनिच्छन्तीमपि जीवसेनपाव एवोपवेश्य दापयंश्व जयंतिकापाणिनैव जीवसेनाय तांबूलवीटिकां सत्यकीर्तिः विश्रांतय सर्वानपि विसर्जयामास । एवमेव पञ्चषदिवसानुषित्वा जोवसेनः सत्यकोर्तिमब्रवीत् । मद्विरहासहिष्णुजरती मे जननी वरमालिनी मदागमनमेवानुपालयन्ती गणयति दिवसान् । तामंतरा न शक्नोमि स्थातुमिह। तजिगमिषुरस्मि वैजयन्ती इति। तदवकर्ण्य सत्यकीर्तिः तात ! जीवसेन ! वृद्धस्संवृत्तोऽस्मि। भवदीयमिदं राज्यम्। यथेदं नभवेदराजकं तथा कर्तुमर्हसि । किं च श्वश्रूस्ते दुहितृनिर्गमनात्प्रभृति तद्विरहविक्लबा जीवितजिहोर्षया प्रायोपविष्टा स्थिता । एवमतोतेषु कतिपयेषु दिवसेषु कश्चन ज्ञानी तपोधनः समाजगामेदं भवनम् । स तु समभ्यर्चितो दूयमानमानसः कृशांगोमेनामालोक्य क्षणमिव प्रणिधानपरः, वत्से ! पुनरायास्यति ते दुहिता पतिसहिता दर्शनदानाय । तन्मा तावदायासय शरीरमिदमित्यभिधाय निरगात् । निशम्य च तद्वाणी स्रवत्पीयूषवेणी कृशांगकापि हर्षप्रकर्षेण समुत्थापिता निर्वर्तितशरीरस्थितिः निर्वेदखिन्नहृदयं तपश्चरणाय महारण्यं जिगमिषू मामपि विनिवार्य प्रतिदिनमपि भवदागमनमेवानुपालयन्ती कालमतिवाहयति स्म । दैवादुपनतं भवदर्शनम् । तदिदानी यथावामपि भवेव निश्चिती सुखिनौ राजधानोयं यथा भवेद्राजन्वती तथा कर्तुमर्हति भवानित्यकथयत्।
तदा जीवसेने किमद्य करोम्यवश्यमनुपेक्षणीयं हि मदेकजीविताया जरत्या जनन्याश्शरीरं तत्कथमपि गन्तव्यमेव मयत्यभिदधति सुचिरं विचिंत्य सत्यकीर्तिरकथयत्। उचितमिव प्रतिभाति भवदीरितं । मातृदेवो भवेति श्रुतिवचनमपि सार्थयितव्यं हि पुत्रेण। इदमपि मदीयं राज्यम