________________
जयन्तिका
अनभिव्यक्तांतर्निलीनचञ्चरीकनिकुरुंबे पर्यंके शयाना संवेशोत्स्वप्नायमाना नन्वार्यपुत्र ! गृहोतोऽसि । क्व यासि ? न जानासि मामिति ; प्रबुद्धा च सरभसमुत्थाय च तल्पात्स्वेदसलिलस्नपितसकलावयवा युगायमानां त्रियामामनैषीत् । एवं भवन्निमित्तं क्लेशमनुभवन्ती कालमत्यवाहयत् । तदन्वेकदाहमनुपलब्धोपायांतरा सखीप्राणपरित्राणकृतादरा दराकुलितस्वांतोपह्वरे तदाशयाविष्करणाय संमंत्र्य समुपलब्धानुमतिर्विदग्धमेकं वैवधिकं भूदेवं निवेदितैतदवस्थाविशेषं विधायारिभीकरां प्रति प्राहिणवम् । स तु विदितोदन्तो मामुपेत्य न्यवेदयत्सर्वमपि । तत्प्रभृति भवदागमनसंभावनया भवदुदन्तगर्भं कथामेव कुर्वतो कालमतिवाहयति । यदि भवानधुनापि नागमिष्यज्जीवलोकं निरालम्बमकरिष्यत् । दिष्ट्या भवदागमनमिति न्यवेदयत् । गन्धर्वराजमुखादवगतभवदुदन्तोऽहं जीवसेनः अनुपदमेवागतोऽस्मि ; इति व्याजहार । तदा सा जयंतिका स्तंभितगमना विविधतुलाको टिपरिष्कृतचरणपल्लवांगुष्ठशिखरेण कुट्टिमतलमालिखन्ती विनमितवदना सदृष्टिक्षेपं कृतसंज्ञा तस्मिन्नेव डोलाफलके मरालसेनया क्षितीशमुपावेशयत् ।
140
समुपवेशितो जीवसेनस्स्तनितगभीरया गिरा ननु मरालसेने ! तव सख्या तावदनलंकृतेयं डोला मामिव मदीयं हृदयमपि चालयतीति सपरिहासमब्रवीत् । तदा तया मंदस्मितमधुराधरपल्लवया मरालसेनया विफलनिजानुनययापि बलादनिच्छंत्यपि तत्पार्श्व एवोपवेशिता जयंतिका तेन जीवसेनेन ननु पक्ष्मलाक्षि ! किमिदम् । तरलतरलाभ्यां नयनाभ्यां प्रकटयसि भयतरलहृदयताम् । सन्निहिते च मयि कस्माद्वा तव भीतिः १ तदलं साध्वसेन । सविस्रंभं सरसे च प्रकाशय निजाशयं पीयूषनिष्यंदिन्या गिरा । तव तावन्मधुरालापश्रवणकुतूहलत्वरातिशयविवशहृदयस्सुदूरात्समागतोऽस्मि । मुधा कालमतिवाहयसि । यातुधानवचश्श्रवणात्प्रभृति भवदायत्तचित्तोऽस्मि । निरवलंबनोऽस्मि । पञ्चशरपरवशोऽस्मि । तदा
1
I
1