________________
चतुर्थलहरी
139
इत्यपृच्छत् । पृष्टा च सा मरालसेना सप्रश्रयं देव ! सखीयं मुक्तेव भवद्गुणस्यूतहृदया भवदर्शनाभिलाषिणो कदाचिद्भित्तितलविलिखितं राजकुमारनिकरं विलोकयन्ती मध्ये विराजमानं भवंतमवलोक्य तरलहृदया कोऽयं सशरोरो मनोभव इति मामपृच्छत् । ____ पृष्टा चाहमखिलमपि भवदुदन्तं न्यवेदयम् । तत्प्रभृति भवञ्चरणसरसिजसेवावाप्तये समाश्रितव्रतयेव निरंतरमप्यनयांगीकृतं मौनम् । समुज्झितान्यभिमतान्याभरणानि। दूरीकृतश्चाहारः । समाश्रितश्च विविक्तो देशः। निमोलितं च नयनयुगलम् । विनिहितं च ध्येये मनः । किञ्च भीतभीतैस्सखीजनैः इयमसकृदाहूतापि निरुत्तरा पक्ष्मपालिस्यूताश्रुजलबिंदुबंधुरतयेव सकृदेव मंदमुन्मोल्य लोचनकुवलयं स्तोकमिव सखोजनानवलोकयन्ती दीर्घापांगप्रणालिकया स्रावितैःश्रुसलिलपूरैर्मदनानलजनितं हृदयसंतापमिव वारयन्ती क्षणादुन्मत्तेव किं स्थितास्मि ? किमु निषण्णास्मि ? किमथवा प्रस्थितास्मि ? किमालपामि ? किमु मूकास्मि ? किं निमीलितलोचनास्मि ? किमेकाकिन्यस्मि ? हंत ! निघृणाः खलु परिजनाः। यद्धृतप्राणामपि मां प्रवेशयिष्यंत्याश्रयाशम् । तपति मम प्रत्यवयवमिति व्याहरंतो भयविह्वलैः परिजनैः परिकल्पिते कमलकुवलयकल्हारास्तरणे बलादनिच्छंत्यपि शायिता पटीरसलिलसेकशिशिरेणोशीरमयेन तालवतेन मया वीज्यमाना कदाचिन्मदनानलसंतापासहिष्णुतया धाराधरोदरप्रविष्टा चंद्रकलेव नीलनलिनीदलोदरमाविशन्ती कदाचिद्भुजंगीव निर्मुक्तकंचुका चन्दनरससिक्तांगी च कदाचिच्छरदिव सिताभ्रधवलिता कदाचिद्भार्गवीव कमलालयनिषण्णा कदाचिदंगेव घनप्रालेयशीतलिता सखीजनानां हृदि महतीं चिंतामुत्पादयन्ती दिवसमखिलमप्यत्यवाहयत्। ___अस्तमुपगते च गभस्तिमालिनि तारकाकोरककलितं संध्यारागारुणं गगनाभोगमिव शशिकला प्रतिमणिप्रतिबिंबितदोपकलिकं प्रविश्य माणिक्यमंदिरं तत्र स्फटिकशिलाकल्पिते महणतरे समास्तीर्णनीलोत्पलप्रकरतया