________________
जयन्तिका
प्रार्थितमपि न खलु लभ्यते सविभ्रममीदृशावस्थं मुखमंडलम् । धन्योऽस्मि । यदेनामेवं निर्निरोधमवलोकयामि । कोपोऽपि दर्शनीयो भवति खलु यदाश्रयात् । प्रायो जगति विविक्तगतानामात्मनिर्विशेषसखीसहचरोणां मुग्धानां नर्मालापपेशला अन्यादृशी खल्वालापधोरणी । किमिह वक्तव्यम् । नर्तयति तावदेनां मन्दमारुतो लतामिव । कन्दर्पस्तु सूत्रधार इवान्तर्निगूढ एव नर्तयति तरुणीम् । तथापि सा तु लज्जायवनिकांतर्हिता झडिति नैव प्रकाशयति हृदयगतं भावम् । सा त्वेकांतगता स्वात्मनिर्विशेषायै सख्यै प्रफुलयति हृदयकमलम् । बहिरुदासीनेव पञ्चशरशरहतितप्यमानापि निगूहयत्यात्मभावमिति विचिंत्य चाधुनाह - मात्मप्रदर्शनेनोपशमयामि कोपमित्यात्मानं प्रदर्शयामास । हन्त ! सत्यमेव कुपिता सखीति दीनवदना मरालसेना भित्तितलदत्तदृष्टिः सविस्मयं प्रतिमुकुरगतं जीवसेनप्रतिबिंबमवलोक्य हर्षभरोद्गतपुलककवचितांगी ननु पक्ष्मलाक्षि ! नाहं मिथ्यावादिनी । दर्शयामि जीवसेनसहस्रम् । तत्कोपमपास्य मुखकमलमुदस्य पश्य तावदिति न्यवेदयत् ।
138
जयंतिका तु मरालसेनां परिहासवादिनीं मन्वानापि मानसविजृंभमाणजीवसेनदर्श न कुतूहलतया सखीवचनश्रवणसमनंतरमेव भित्तितलदत्तदृष्टिर्जीव सेनप्रतिबिंबपरंपरामवलोक्य विस्मयाश्लिष्टांतरंगा हर्षातिशयात्किमिदं मायाप्रकल्पितमाहोस्विदनवरतानुध्यानजनितरणरणिकाकार्यमथवा मतिभ्रमः ? महदिदमाश्वर्यं ! बिंबमंतरा न हि प्रतिबिंबस्यावकाशः । इति बहुधा विचितयन्तो निरतिशयानंद विस्तारितनयना प्रतीहारदेशविवलितकंधरा जोवसेनमवेक्ष्य वैलक्ष्येणेतिकर्तव्यतामूढा त्रपाभरावनतमुखी तस्थौ । तदानीं जोवसेनस्तु समंदस्मितमुपसृत्य मरालसेनां प्रति ननु प्रियजयंति ! किमिदमियं ते सखी दृश्यते चिंताकुलितस्वांतेव । कथमिव गतो जीवसेनोदंतः तावदस्याः कर्णपथम् ? कथं वा मदागमनप्रत्याशा ; यदनुपालयति मदागमनमेव ; निवेदय दयया तदखिलमपि