________________
चतुर्थलहरी
137 कंबुगणान्कंधरां सृष्ट्वा च चक्रवाकसमुन्नतकठोरमहीधरजातान्पयोधरयुगलं कृत्वा च वल्लोतल्लजान्बाहुलते विधाय च वियदवलग्नं निर्माय चावर्तसहस्रं नाभिकुहरं समभ्यस्य च सिकताराशिरथांगशतं नितम्बमंडलं परिकल्प्य च स्तंबेरमशुंडादंडकदलीकांडकरभनिकरं चोरुयुगलं कृत्वा च कोमलतरशिरीषकुसुमराशिं शरीरमसृजत् ।
नूनमेनां मनोहरांगी सृजति विधातरि सर्वाश्च गीर्वाणोरगगन्धवांगना नियुक्तास्तदभ्यासपदे । विषमिवेयं मोहमुपजनयति। पित्तमिव उन्मत्तयति । मदिरेव परवशयति तरुणजनहृदयम् । कर्पूर लिखि शोतलयति लोचनयुगलम् । किमियं स्वाप्नसुन्दरी ? कुतस्त्यमीशं सौंदर्यम् ? चतुरेण चतुराननेन कथमिव संकल्पितम् । कति वत्सरान्विचिंतितमस्यास्सृष्टयै ? कुत्र संपादितमोडक्सामग्रीजालम् । अथवा स्यादेवम् । चिरविरचिततपोबलेन ध्यानमात्रेणैव निर्माय सुन्दरीमिमां प्राकाशयन्निजकुशलतां प्रजापतिः। अहो ! मध्यमलोकभागधेयम् ! पुरा कोदृशं कृतं मध्यमलोकेनानेन तपः ? किं वापराद्धं त्रिदशालयेन। हंत ! चतुराननकृपापरीवाहो मनुजनयनपथसंचारिणोमेनामतानीदिति। तदानीं मरालसेनायां निर्वर्ण्य जयंतिकावदनं परिहासाय सस्मितमयि ! पक्ष्मलाक्षि ! परिस्फुरदिव ते वामाक्षि । तज्जानीहि सन्निहितं जोवसेनमिति निगदंत्यां निरंतरमपि हृदयनिहितजीवसेनतया सा तु तन्नामश्रवणमात्रेण केनाप्युस्थापितेव ससंभ्रमं डोलाफलकात्समुत्थाय गलितत्रपा परितो विक्षिप्तनयना तमनवलोक्य निवदेन दोनदीना कोपकषायितेन सबाष्पं चक्षुषा मरालसेनां पिबन्तीवावलोकयन्ती सभ्रमङ्गं समारोपितकोपेव धिगसमीक्ष्यकारिणि ! किमु तव खेलनस्याहमेव भाजनमिति तामुपालभमाना हृदयगतदयितावलोकनायेवावनतमुखी वामकरतलशायितकपोलफलका तस्मिनेव डोलाफलके समुपाविशत् । जीवसेनस्तु तादृशीमारोपितकोपामवलोक्य मनसोत्थमचिंतयत् ।
J-18