________________
चतुर्थलहरी
भाषय माम् । धन्यमापादय माम् । सिञ्च मामपांगवीक्षणामृतधारया | अनुगृहोतो भवेयमिति सानुनयं बहुधाभिहिता त्रपया भिया आवेगेन चावनमितमुखी सकिलकिञ्चितं डोलाफलकदत्तदृष्टिः कथंकथमपि वक्तुमुपक्रांता लज्जा भर म्लिष्टवचना मधुरमधुरं मन्दं मन्दं स्विन्नगात्री न्यवेदयत् । नन्वार्यपुत्र ! किं ब्रवीमि ? बाधते मां स्त्रीत्वनिसर्गजा लज्जा प्रकाशयितुं निजाशयम् । यद्यदभिहितं मरालसेनया तदखिलमपि सत्यमेव । भवद्दिदृक्षा बलवतो संजाता । दिष्ट्या पश्यामि भवन्तम् । क्व वा राजधान्यरिभीकरा नाम ? केदं हेमपुरम् ? कथं वा मदुदन्तप्राप्तिः ? कथमिहागमनम् ? कथं भवद्योगः ? सर्वोऽपि मे मनोरथः स्वप्नकल्प इति निरंतरचितासंतानव्याकुलितमानसाभवम् । तेन यातुधानेन कृता खलु महत्युपकृतिः । तथाप्यधुना महदंतरायग्रस्तास्मि । नितरां भोतास्मि । यदिमां मां पिता मे सत्यकीर्तिः निजसुहृदः कांभोजभूपस्य पुत्राय दातुकामश्विरादनिच्छन्तोमपि प्रयतते । हन्ताहमपि भवदागमननिरीक्षया तावदप्रकाशितहृदया समाश्रितमौना कृतभवदानयनप्रयत्नाभवम् । तदिदानीमुदन्तोऽयं यद्याविशेत्पितुश्श्रवणपथं तदानर्थाय कल्पते । तदिदानीमनया सुरंगसरण्या निस्सराव इति ।
श्रुत्वा च नयोपेतं तत्कालसमुचितमंतरायभयनिवारकं वचनमस्यास्सत्वरं समुत्थाय च जयंतिकया सह जीवसेनस्समंदस्मितं मरालसेनायाः कर किसलयमवलंब्य पाणिना ननु मरालसेने ! किमु दोयते भवत्प्रियसखोगमनायानुमतिरित्यपृच्छत् । पृष्टा च सा मरालसेना प्रमोदनिदान - मप्यशनिपरुषतरं विचिंत्य नरपतिवचः निरर्गलनिर्गलदश्रुसलिलप्लाविततारका विनमितोत्तमांगी दुःखभरदम्यमानकंठनालतया निरुत्तरा च सखीविरहासहिष्णुतया बाष्पपूराभिषिच्यमानकपोलफलकवक्षोजमंडला दृढतरं परिरभ्य बाहुलताभ्यां जयंतिकां सगद्गदं ननु मत्सुखदुःखसमभागिनि ! जयंतिके ! मदीयं तावदिदं हृदयं वज्रसारकठोरं भवच्चेतसा संस्यूतं
141