________________
142
जयन्तिका
खल्वाबाल्यात्परस्परप्रेमतन्तुसंतानेन। तागेकीभूतमधुना द्विधा विधाय विधात्रा दूरीकृतं खलु । विहाय मामेकाकिनी यास्यसि । यद्यपि चिरप्रार्थितेन वल्लभेन योगो मोदावह एव । तथापि प्राणनिर्विशेषां भवतीमन्तरा कथमिवाहमनाथेव प्राणिमि ? मम तावत्त्वां विना कालकलापि युगायते । कथमिवातिवाहयामि दीर्घतरान्कालान् ? कदा वा द्रक्ष्यामि पुनरपि भवतीं ? स्यादेतत् । पृष्टा च भवत्पित्रा सत्यकीर्तिना व जयंतिकेति किं ब्रवीमि ? शून्यं जातमिदं भवनं भवद्विरहितम् । भवन्निषेवितं वस्तुजातं तावद्विगुणयति मे दुःखम् । कनकपंजरपोषिताः कीराः जयंतिकेत्याह्वयंति । तदाकर्णनेन विह्वलितं भवति मे हृदयम् । भवदनवलोकनदुःखितां ते जननी कथमिव समाश्वासयामि ? परिजनानामावेगं कथमिव निवारयामि ? निंदन्ति खलु मदनवधानतां सर्वेऽपि । कथं भवेयमित्यनुलपन्ती मन्दं मन्दं सगद्गदमरोदीत् ।
श्रुत्वा च सखीवचनं जयंतिका दुःखभरदम्यमानकण्ठी बाष्पसलिलपूरितनयना मरालसेनायाश्शिरः परामृशन्ती करतलेन त्रपया सखीकपोलतलविनिहितमुखपुंडरीका ननु मरालसेने ! किमिदं ? प्रमोदावसरेऽपि रोदनपरासि । जानीहि तावत्पुनरपि त्वरितमेव पितृदिदृक्षया सन्निहिताम् । तदनुजानीहि गमनाय मच्छुभोदर्कतर्कणैकताना । मा तावदधुनैव निवेदयोदंतमेनं मत्पित्रे । कालानुरोधेन समयमनुपालयन्ती पितुश्श्रवणपथं प्रवेशय वृत्तमेतत् । न किमपि वक्तव्यमस्ति तुभ्यम् । चतुरा भवती खलु । मनस्सांत्वयेति सगद्गदं निगदन्ती सांत्वयामास ताम् । जीवसेनस्तु प्रेमातिशयकंदलितमेवं परस्परसल्लापमवकर्ण्य समंदस्मितं ननु मरालसेने ! किमिदमेवम् ? यद्यपि परस्परमैत्रीविवर्धितसंबंधस्य विघटनमरंतुदमेव ; तथापि लता तावदुपन्नतस्मंतरा वृद्धिं नाधिगच्छति खलु ? निरवलंबना नारी नैव शोभते । तत्कस्यचित्पुरुषस्यावलंबनमवश्यं जगत्यपेक्ष्यते । यदि न तथा तस्या जन्म निरर्थकम् । एवं स्थिते श्लाघनीयः खलु सत्पुरुषसंबंधः।