________________
जयन्तिका
रसालसालाश्वत्थदधित्थादिविविधवृक्षषडमंडितस्य शुकपिकादिनानाविधशकुनिनिकरकलकलरवमुखरितस्य सुन्दरीमुखस्येव तिलकालंकृतस्य विटकुलस्येव गणिकासनाथस्य मिथिलापत्तनस्येव वैदेहीजन्मस्थलस्य विष्णुवक्षस्थलस्येव लक्ष्म्याक्रांतस्य पाकशासननगरस्येव विरचितरंमावासस्य महेश्वरकेतनस्येव वृषभालंकृतस्य द्वारकानगरस्येव मुसल्यधिष्ठितस्य वैकुण्ठस्येव विराजमानमुकुन्दस्य अलकापत्तनस्येव विलसत्कुबेरकस्य लकापुरस्येव पलाशगणसमाक्रांतस्य नराधिपोत्तमांगस्येव सितच्छत्रालंकृतस्य श्रीनन्दकुमारकरतलस्येव वेणुरमणीयस्य युद्धांकणस्येव विजृममाणशरनिकरस्य राघवबलस्येव मर्कटकुलनिचितस्य पद्माकरस्येव पुंडरीकषंडमंडितस्यापि भयंकरस्य नगरस्येव भूदाररक्षितस्यापि परित्यक्तजनतावासस्य गगनतलस्येव पर्यटदृक्षपतेरपि कृच्छ्रदर्शनीयस्य अवरोधस्येव महिषीमंडलमंडितस्यापि विविक्तस्य विष्णुपदस्येव हरिकृतावासस्यापि पर्यटन्निशाचरवर्गस्य स्वर्गस्येव कौशिकाक्रांतस्य रमणीयाप्सरसश्च पातालस्येव तमालांधकारस्य नागाकुलस्य च शवशतनिचितस्यापि समारब्धशिवामितक्रमस्य च दंडकारण्यस्य मध्ये विराजमानायां गिरिगुहायां वरमालिनी नाम नरपतिदुहिता द्वादशान्ददेश्येन चारुवक्त्रनाम्ना तनयेन सममुवास। पदेपदे स चारुवक्त्रो लवित्रखनित्रपाणिनखंपचरजोराजिरुक्षे आतपतापिते काननकापथे तत्रतत्र पर्यटन्कंदमूलफलान्यन्विष्य पिटकमापूर्य चासाद्य गुहां समर्प्य च तानि जनन्यै तया दत्तैः कंदमूलफलैः सुहितस्तावदविदितनिजामिजात्यमतिररण्यमेव शरण्यं मन्वानः कालमतिवाहयामास ।
एकदा तादृशं भोगेकभाजनमपि कठोरतरे कान्तारे परिभ्रमन्तं तं सुकुमारं राजकुमारं निरीक्ष्य स्मृतिपथाधिरूढनिरतिशयसौधसौभाग्यपरम्परा दुःखैकभाजनं रुदती तैलसंस्कारविहीनतया धूलिधूसरितकेशपाशा विमुक्तमुक्तायामरणा परिधृतधौतांशुका कन्दमूलफलाहारतया कठोरातपसंचारेण चातिकृशग्लपिततनुयष्टिः क्लिष्टा च कांतारवासेन सा वरमालिनी नितरां